________________
हितोपदेशः । गाथा-४०२, ३, ४, ५ - अभिनिवेशवैशसम् ।। ओघेन द्रव्यादिकस्य स्वरूपम् ।। ३७३
एवं च परतीथिंगतमभिनिवेशवैशसमभिधाय साम्प्रतं स्वतीर्थिगोचरमभिधित्सुराह -
जिणमयरहस्ससुनो, मिच्छाभिणिवेसमुबहउ अन्नो ।
सियवायखायबुद्धी वि कुग्गहं जंति ही मोहो ।।४०२।। जिनमतमहत्प्रवचनं, तस्य रहस्यं जीवाजीवादितत्त्वपरिज्ञानं, तेन शून्यस्तत्त्वज्ञानविकलोऽन्यो जैनादितर: कुतीर्थी मिथ्याभिनिवेशमसद्ग्रहरूपमुद्वहतां नाम । न तत्र चित्रमतात्त्विकत्वादेव । यत्तु स्याद्वादः स्याच्छब्दलाञ्छितोऽनन्तगमपर्यायनयहेतुभङ्गिसङ्गतो जिनागमस्तत्र ख्यातबुद्धयः प्रवीणमतयोऽपि कुग्रहं यान्ति, तत् सकलकर्ममूर्द्धाभिषिक्तस्य महामहिम्नो मोहस्यैव विलसितमिति ।।४०२ ।। तथाहि -
जिणपन्नत्तस्स सुयस्स, भगवओ भाववित्तिममुणंता ।
वियलियनाणालोया, निरइसया संपइयपुरिसा ।।४०३।। एवंविधा ऐदंयुगीना: पुरुषा यत् कुग्रहं प्रकटयन्ति तदभिनिवेशस्य माहात्म्यमिति कलापकान्त्यगाथया सम्बन्धः । किंविशिष्टाः ? जिनप्रज्ञप्तस्य सर्वज्ञोपज्ञस्य भगवतः सर्वातिशयकोशस्य श्रुतस्य समयस्य भाववृत्तिमन्तस्तत्त्वमजानन्तः । अज्ञाने हेतुमाह - विगलितज्ञानालोकास्तत एव निरतिशयाः । दुःषमानुभावेन विशिष्टज्ञानातिशयादेर्व्यवच्छेदात् ।।४०३।।
दव्वं खित्तं कालं भावं तह नाणकिरियनयजोगं ।
उस्सग्गं अववायं ववहारं निच्छयनयं च ।।४०४।। तदेतद् द्रव्यादिकमोघेन सामान्येन श्रुत्वेत्युत्तरगाथया सम्बन्धः । किं तदित्याह - द्रव्यं सचित्ताचित्तमिश्रकमुभयरूपं च । कल्प्यमकल्प्यं । ग्लानादेर्योग्यमयोग्यं चेति । तथा क्षेत्रमध्वा जनपदपुरग्रामादि । कालं सुभिक्षदुर्भिक्षादि । भावं हृष्टग्लानादि । गाढकल्पमगाढकल्पं चेति । तथा ज्ञाननयं क्रियानयं च । सामान्यरूपमुत्सर्ग विशेषरूपमपवादं च । तथा प्रवृत्तिरूपं व्यवहारनयं भावरूपं निश्चयनयं च ।।४०४।।
आहेण सुणिय सम्मं, विसयविभागं अयाणिय इमेसिं ।
जं किंचि सुत्तमित्तं, जुत्तिसहं संगहेऊण ।।४०५।। तदिदं द्रव्यादिकमोघेन सामान्यव्याख्यानेन श्रुत्वा समाकर्ण्य अमीषां च सम्यक् यथावस्थितं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org