________________
३७२
हितोपदेशः । गाथा-३९९, ४००, ४०१ - अभिनिवेशवैशसम् ।।
लुप्तवीर्याचारेण विहितमपि । तथा तीव्रसत्त्वविकलासुमतां दुष्करं तपो द्वादशभेदं तप्तमपि । तथा श्रुतमङ्गानङ्गरूपं कालविनयाद्यष्टप्रकारज्ञानाचारपुरःसरं परिशीलितं स्वभ्यस्तमलंस्फुरद्रूपम् तदेतदखिलमप्यभिनिवेशेनासद्ग्रहेण हियते । कार्याकरत्वेन सदप्यसदिव विधीयते । ही इति खेदे । अयुक्त्या हि गता काकिण्यपि दुनोति, किं पुनः सर्वस्वमत एव खेद इति ।।३९८ ।। अपरं च -
अहह भवनवपारं, चरित्तपोएण केवि पत्तावि ।
तम्मज्झमिति पुण अहिणिवेसपडिकूलपवणहया ।।३९९।। अहहेत्यभिनिविष्टजनानुशोचने । भव एवार्णवो भवार्णवस्तस्य पारं द्वित्रादिभवनिर्वृतिप्राप्तिलक्षणं । तचरित्रपोतेन चारित्रवहित्रेण केचिदनासन्ननिःश्रेयसश्रियः प्राणिनः प्राप्ता अपि पुनः पुनरपि तस्य भवजलनिधेर्मध्यं प्रति । किम्भूताः ? अभिनिवेश एव प्रतिकूलः सम्मुखापाती पवनस्तेन हताः पश्चान्मुखं विक्षिप्ताः । यथा केचिदसुकृतिनः सांयात्रिकाः पोतेन पारावारपारं प्राप्ता अपि प्रतिकूलपवनप्रेरिताः पुनः पयोधिमध्यमध्यासते । तद्वदेतेऽपि ।।३९९।। तथा -
मुत्तूण मुक्खमग्गं निग्गंथं पवयणं हहा ! मूढा ।
मिच्छाभिणिवेसहया भमंति संसारकंतारे ।।४००।। मुक्त्वा विमुच्य मोक्षमार्ग शिवाध्वानं निग्रंथप्रवचनमर्हच्छासनं । हहेति तदधन्यतायां । मूढा मोहोपहतमतयस्तत एव मिथ्याभिनिवेशेनासद्ग्रहेण हताः संयमप्राणेभ्यः प्रच्याविताः सन्तः संसार एव दुष्करणहरिणराजप्रचारदुःसञ्चरत्वेन कषायतस्करगणाकीर्णत्वेन च कान्तारमिव कान्तारं तत्र । भ्राम्यन्ति स्वैरं विचरन्ति । तदुत्थानि च दुःखलक्षाण्यनुभवन्ति ।।४०० ।। यत: -
कह ताव जणो सुक्खी उदग्गकुग्गहदवग्गितवियंगो ।
जाव न जिणवयणामयदहंमि निव्ववइ अप्पाणं ।।४०१।।। कथं तावदयं संसारोदरविवरवर्ती जनः स्फुरदुग्रकुग्रहदवाग्नितप्ताङ्गः सन् सुखी सुखभाजनं भवतु । यावत् किम्? यावजिनवचनमेव दुरभिनिवेशहुताशनप्रशमनप्रवणत्वेनामृतहृदस्तस्मिनात्मानं न निर्वापयति । विना हि जिनवचनामृतपानं कुतः कदभिनिवेशोपशमः । समुचितं च दावाग्निसन्तप्ताङ्गस्य सुधाद्रहे देहनिर्वापणमिति ।।४०१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org