________________
हितोपदेशः । गाथा - ३९५, ३९६, ३९७, ३९८ - अभिनिवेशवेशसम् ।।
पसरइ गाढावेगो जस्स मणे अभिणिवेसविसवेगो । तम्मि पत्तो वि गुरू-वएसमंतो न संकमइ । ३९५।।
यस्य दीर्घसंसृतेः सत्त्वस्य मनस्यभिनिवेश एव सद्विचारचैतन्यमुकुलनक्षमत्वेन विषवेग इव प्रसरति । किम्भूतो गाढावेगः ? प्रगाढतरः । तस्मिन् गुरूपदेशमन्त्रः प्रयुक्तोऽपि न सङ्क्रामति । एतदुक्तं भवति - यथा गाढावेगे विषे सुप्रयुक्तोऽपि मन्त्रस्तद्विकारतिरस्काराय नालम्, एवमभिनिविष्टे मनसि सद्गुरूपदेश इति । । ३०५ ।। तथा
इक्को वि अभिणिवेसो सदप्पसप्पु व्व सप्पिरो पुरओ । रुंभइ वियंभमाणं नरिंदसिन्नं व गुणनिवहं । ३९६।।
एकोप्यात्मोत्कर्षकृतघ्नत्वादिसहायविरहितोऽप्यभिनिवेशः पुरः प्रसर्प्पन्नखिलमपि नयविनयादिगुणौघं विजृम्भमाणं प्रकर्षोन्मुखं रुणद्धि । कदभिनिवेशविसंस्थुले हि मनसि कुतः सरलाशयत्वविनीतत्वादिसाध्यो गुणगणः, क इव ? सदर्प्पसर्प्प इव । यथा हि फटाटोपविकटः फणी पुरः प्रसर्पन् विजृम्भमाणमितस्ततः प्रसरणपरं नरेन्द्रसैन्यमप्येकोऽपि रुणद्धि । दर्शनमपि पन्नगस्याशकुनम्, किं पुनः पुरः प्रसर्पणमिति ।। ३९६ ।। अन्यच्च
३७१
-
जस्स मणभवणमणहं तिव्वाभिणिवेससंतमसछन्नं ।
वित्थरइ तत्थ न धुवं पयत्थपयडणपरा दिट्ठी ।।३९७ ।।
किञ्च, न केवलमियदेवाभिनिवेशवैशसं यावदन्यदपीत्याह -
यस्य गुरुकर्म्मणः प्राणिनो मनोभवनं चेतोगृहं प्रागवस्थायामनवद्यं निर्दोषं, प्रबलमिथ्यात्वोदयात्तीव्राभिनिवेश एव शिवपथप्रच्छादनपरत्वेन सन्तमसमिव तेन छन्नं व्याप्तम् । तत्र ध्रुवं निश्चितं पदार्थानां जीवाजीवादीनां प्रकटनपरा दृष्टिर्दर्शनं श्रद्धानरूपं न विस्तरति । अभिनिवेशो हि मिथ्यात्वप्रकारस्तद्वतां च कुतस्तत्त्वार्थश्रद्धानं । अथ चोक्तिः - 'यत् किल भवनं सन्तमसछन्नं भवति, तत्र घटपटादिपदार्थप्रकटनपरा दृष्टिः कथं प्रसरति' इति । । ३९७ ।।
कट्टमणुट्ठाणमणुट्ठियं पि तवियं तवं पि अइतिव्वं । परिसीलियममलसुयं ही हीरइ अभिणिवेसेण । । ३९८ । ।
कष्टहेतुत्वात् कष्टं, तच्च तदनुष्ठानं नक्तन्दिनविभागव्यवस्थापितं क्रियाकलापरूपं अनुष्ठितम
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org