________________
३७० हितोपदेशः । गाथा-३९३, ३९४ - उत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे एकादशमं अभिनिवेशनिरसनद्वारम् ।।
करितुरयाई सव्वं पुव्ववियन्नं समप्पए तस्स । इय कयकियो होउं पत्तो राया पुरं निययं ।।११८ ।। अप्पडिहयप्पयावो जाओ कालेण सबरराओ वि । को वनउ माहप्पं उत्तमपुरिसोवयाराणं ।।११९।। इत्थं नरेन्द्रः शबरस्य तस्य, तमल्पमप्याप्य किलोपकारम् । कृतज्ञचूडामणिरात्मतुल्य-मेनं विधायाजनि कीर्तिपात्रम् ।।१२०।। विद्वांसः शतशः स्फुरन्ति भुवने सन्त्येव च श्रीभृतो, वृत्तिं वैनयिकी च विभ्रति कति प्रीणन्ति वाग्भिः परे । दृश्यन्ते सुकृतक्रियासु कुशला दाताऽपि कोऽपि क्वचित् कल्पोर्वीरुहवद् वने न सुलभः प्रायः कृतज्ञो जने ।।१२१।। किञ्च - प्रमाणवेदीवविशारदेषुरसायिनीवाथचिकित्सकेषु । ब्रह्मव्रतीव व्रतवत्सु लोके प्रकाशते हन्त कृतज्ञ एव ।।१२२।।
इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्टावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वतिनि उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे दशमं कृतघ्नत्वपरिहारप्रतिद्वारं समाप्तमिति ।।श्रीः।। उद्दिष्टं सदृष्टान्तं कृतघ्नत्वपरित्यागद्वारम्, अधुनाऽभिनिवेशनिरसनद्वारमभिधीयते -
सम्मत्ताइगुणोहो अणभिणिविट्ठस्स माणसे वसइ ।
तम्हा कुगइपवेसो निलंभियव्वो अभिणिवेसो ।।३९३॥ . प्रकरणेऽस्मिन्नादितः प्रभृति यः सम्यक्त्वादिर्गुणोघः प्रज्ञप्तः स प्राय: अनभिनिविष्टस्य कदभिनिवेशविरहितस्यैव मानसे निवसति । तस्मात् सम्यक्त्वादिगुणगणगृहयालुना नरेण मूलादेवाभिनिवेशो निरोद्धव्यः । किम्भूतः? कुगतिप्रवेशः । दुर्गतिपुरीगोपुरप्रतिमः ।।३९३ ।। यतः
जह अजिनाउ जरं, जहंधयारं च तरणिविरहाओ ।
तह मुणह निसंसाओ, मिच्छत्तं अहिणिवेसाओ ।।३९४ ।। यथा अजीर्णात् रसापरीणामलक्षणात् ज्वरः समुत्पद्यते । यथा च तरणिविरहात् भास्करतिरोधानादन्धकारमवतमसं तथैवाभिनिवेशादसद्ग्रहरूपात् मिथ्यात्वं जानीत । किम्भूतात् ? नृशंसात् नृशंसत्वहेतुत्वादभिनिवेशोऽपि नृशंसस्तस्मात् ।।३९४ ।। किञ्च -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org