________________
३६४
हितोपदेशः । गाथा-३८८, ३८९, ३९० - कृतज्ञत्वं दुनिर्वाह्यम् ।। कृतज्ञकृतघ्नयोः महदन्तरम् ।।
मुपकारे त्रिजगत्यपि साक्षात्साक्षिणी, अतः कथं तदुपकृतमनेन तपस्विना हन्यते । केवलमुपायान्तरैस्तपोदानादिभिः प्रतिभवं यदनेनार्जितं तदात्मन एव सुकृतमसौ हन्तीति कृतघ्नः ।।३८७।। ननु यदि पुनरत्यन्तदुर्निर्वाह्यं कृतज्ञत्वमतोऽस्य तत्र कातरं चित्तमिति चेत्, तदाह -
सामग्गीसाविक्खो परोवयारो भविज व न व त्ति ।
उवयरियं मनंताण हुज का नाम धणहाणी ।।३८८।। परोपकारो हि पुरुषस्य कर्हिचित् भवति कदाचिञ्च न भवति । यतोऽसौ पुष्कलद्रव्यादिसामग्रीसापेक्षः । सा च प्रचुरपचेलिमपुण्यप्रचयप्राप्या । उपकृतं पुनः केवलं वाङ्मनोमात्रायाससाध्यं मन्यमानानां का नाम धनहानिः कायक्लेशो वा भवेत्, तस्मादहो ! तन्मात्रेऽपि तन्द्रावतां तेषामधन्यतेति ।।३८८ ।। कृतज्ञकृतघ्नयोरेवं महदन्तरमुदीरयति -
अवणीयं सीसाओ तिणमुवयारं ति मन्नइ कयन्नू ।
पिच्छह पुरिसविसेसं इयरो कोडि पि पम्हुसइ ।।३८९।। समानेऽपि मानुषत्वे तुल्येऽपि च पुरुषस्य पुरुषान्तरात् पश्यत कियदन्तरं यदेकः कृतज्ञः शीर्षान्मस्तकात् तृणमप्यपनीतं कोटिदानतुल्यमुपकारं मन्यते । इतरस्तु कृतघ्नः प्रस्तावे कोटिमपि वितीर्णां तृणायापि न मन्यते । तेनैवोक्तम् -
वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ।।१॥[ ] इति ।।३८९।। किञ्च - उवयारिणं निगूहइ नीयजणो रिद्धिपयरिसं पत्तो।।
उत्तमजणो पुण तया विसेसओ तं पयासेइ ।।३९०।। नीचः कृतघ्नः कुतोऽपि महाशयाद् ऋद्धिप्रकर्ष प्राप्तः स्वाधमत्वेन तमेवोपकारिमणमपद्भुते। उत्तमस्तु तदा समृद्धिसमुदयावसरे तं प्राक् कृतोपकारमुचैः सर्वसमक्षमेतस्मादहमेवंविधोऽभूवमिति प्रकाशयति ।।३९० ।।
।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org