________________
हितोपदेशः । गाथा-३८५, ३८६, ३८७ - कृतघ्नो न भवेयम् ।। कृतघ्नशब्दार्थम् ।।
३६३
गर्भेऽस्या इति व्युत्पत्त्या रत्नगर्भेत्यभिधीयते । चेत् पुनः सर्वंसहात्वेन कृतघ्नानपि नृजघन्यानुद्वहति तेनैव तदुपस्पर्शमालिन्येन मेदिन्यप्यसाविति ।।३८४ ।। पुनः कृतघ्नस्यैव जघन्यत्वमाह -
अच्छउ पछुवयारो उवयारकरम्मि ता कयग्घस्स ।
एयं पि भणइ धिट्ठो उवयरइ भएण मम एसो ।।३८५।। आस्तां तावन्नरावकरस्य कृतघ्नस्योपकारपरे नरमणौ प्रत्युपकारो यावदिदमपि धृष्टः स्फुटं सर्वत्र व्याहरति । यदेष न खलु स्वाजन्येन मह्यमुपस्निह्यति । किन्तु मत्पराक्रमाक्रान्तः प्रतिभयेनैवोपकरोतीति ।।३८५।। इदानीं कविः कृतघ्नत्वादत्यन्तभीरुरदृष्टं सत्कर्म प्रार्थयन्नाह -
हुज वरमणुवयारी पछुवयारम्मि मंथरो वा वि ।
जइ मग्गियं पि लभइ ता मा हुजा कयग्यो हं ।।३८६।। हे भगवन्नदृष्ट ! वरमहमनुपकारी तृणमात्रेणापि कस्याप्यकृतोपकारो भूयासम् । यदि वा प्रत्युपकारे उपकृतप्रत्युपकृतिलक्षणे मन्थरो मन्दोत्साहः स्याम् । न च स्वकृतकर्मणोऽधिकं काणवराटिकामात्रमपि प्रार्थनाशतैरपि प्राप्यते । किन्तु यदि कथमपि प्रार्थितमपि लभ्यते तदा कदाचिदप्यहं मा स्म कृतघ्नो भवेयम् । इदमत्र हृदयम् - किल प्रकृत्यनुपकारी कृतप्रत्युपकृतिमन्थरश्च द्वावप्येतौ जगति जघन्यौ । कृतघ्नस्त्वनयोरपि सकाशादत्यन्ताधम इति ।।३८६।। कृतघ्रशब्दार्थमेव विवेचयति -
हणइ किर परकयं जं तेण कयग्रो इमु त्ति भणइ जणो ।
अप्पकयं चिय सुकयं निहणइ एसु त्ति मह बुद्धी ।।३८७।। किल कृतं हन्तीति कृतघ्न इति शाब्दिकव्युत्पत्तिस्तावदवितथैव । केवलमत्र जनः प्राकृतलोकोऽयमेवमभिदधाति । यदसौ परैरुत्तमप्रकृतिभिः कृतमुपकारादि नीचप्रकृतित्वेनामन्यमानो हन्तीति कृतघ्नः । मम पुनरेवं बुद्धिर्यत् तेषां महात्मनामनुपकृतपरोपकृतिप्रत्यलाना
गाथा-३८७ 1. 'कृतघ्न' - कृतं हन्ति । कृतोपकारस्यापकारके । कृतं वस्त्राभरणपात्रादि प्रदत्तं घ्नन्ति सर्वथा नाशयन्तीत्येवंशीलाः कृतघ्नाः ।।
___JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org