________________
३६२
हितोपदेशः । गाथा-३८२, ३८३, ३८४ - कृतघ्ना जघन्याः तथा कृतज्ञा उत्तमाः ।।
किल पूर्वोदितात्मोत्कर्षदोषानुपश्रुत्य निरहङ्कारोऽपि गलितगर्वोऽपि नरः पुमांस्तावदात्मानं गुणिषु गुणवत्सु न रोपयति । गुणिगणगणनारम्भे ससम्भ्रमगणनीयो न भवति । यावत् किं ? यावत् ! कृतज्ञतां न प्रकटयति किम्भूतां? समुन्नतिहेतुं भुवनाद्भुताभ्युदयकारणम् ।।३८१ ।। यत:
लब्भइ न सहस्सेसु वि उवयारकरो वि इह नरो ताव ।
जो मनइ उवयरियं सो लक्खेसुं पि दुल्लक्खो ।।३८२।। इहास्मिन् जगति यः किलानुपकृतोऽप्युत्तमप्रकृतित्वेन परोपकाराय प्रवर्त्तते । सोऽपि सहस्रसङ्ख्येष्वपि पुरुषेषु निपुणमपि निरूप्यमाणस्तावत् न लभ्यते । यस्तु परोपकृतं कृतज्ञतया मन्यते स प्रायो लक्षेष्वपि दुर्लक्ष एव । उक्तं च -
पञ्चषाः सन्ति ते केचिदुपकर्तुं स्फुरन्ति ये ।
ये स्मरन्त्युपकारस्य तैस्तु वन्ध्या वसुन्धरा ।।१।।[ ] इति ।।३८२।। किल कदाचिद् उत्तमाधमपरिच्छेदाय विमर्शपरान् विशारदान् विभाव्य कविराह -
उत्तमअहमवियारे वीमंसह किं मुहा बुहा तुब्भे ।
अहमो न कयग्घाओ कयनुणो उत्तमो नत्रो ।।३८३।। हे बुधा ! उत्तमाधमविचारे सदसन्मीमांसायां तत्त्वं विदन्तोऽपि किं मुधा यूयं विमृशत । यतः शतशः परिच्छिन्नमेवैतत् यत् कृतघ्नादन्यो जगति न जघन्यः । कृतज्ञाच नापरोऽप्युत्तम इति ।।३८३।।
अथ किमर्थमेकस्या एव वसुमत्या रत्नगर्भेति मेदिनीति च परस्परविसदृशमभिधानद्वयमिति वितर्के समाधत्ते -
नणु तेण रयणगब्भा धरइ धरा जं कयन्नुणो पुरिसे ।
जं पुण वहइ कयग्घे तेण चिय मेइणी वि इमा ।।३८४ ।। नन्विति सुप्रसिद्धमेवैतत् यद् यस्मादयौ धग कृतज्ञपुरुषरत्नानि धारयति । तेन रत्नानि गाथा-३८२ 1. 'कृतज्ञ' - परेण कृतमुपकारमविस्मृत्या जानातीति कृतज्ञः । बहुमत्रइधम्मगुरुं, परमुवयारित्ति तस्सबुद्धीए ।तत्तो गुणोणुवुड्डी, गुणारिहोतेणिह कयन्नू ।। - धर्मरत्न प्र० गा.२६ । गाथा-३८४ 1. रत्नगर्भा - रत्नानि गर्भेऽस्या रत्नगर्भा, रत्नवतीति भागुरिः पृथ्वीत्यर्थः ।।
- अभि. स्वो. ना. श्लो. ९३७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org