________________
हितोपदेशः । गाथा - ३५५, ३५६, ३५७ - धर्म्मविरुद्धं त्याज्यम् ।।
गुरुर्धर्माचार्य:, स्वामी वृत्तिदः, धार्मिकाः कामार्थयोर्गुणीभावेन केवलधर्म्मनिर्मितिरतयः, सुहृदो मित्राणि, स्वजनाः पितृमातृपक्षीयाः, युवत्योऽबलाः, विश्वस्ताः सर्वात्मनाप्यात्मनि धृताप्तत्वबुद्धयः । एतेषां वञ्चनेऽतिसन्धाने यः किलारम्भस्तदौपयिकचिन्तनमेतदपि लोकद्वयगर्हितत्वेन धर्म्मविरुद्धम् । तथा स्वस्मादन्ये परास्तेषां ऋद्धिः सत्कर्म्मानुकूल्येनोपनतासम्पत् तत्र मत्सरित्वमसहनत्वम् । तथा अत्युद्भटः कृत्याकृत्यविचारशून्यो यो लोभश्चतुर्थसम्परायस्तज्ज नितः क्षोभश्चेतसोऽस्वास्थ्यं तदपि प्रस्तुतविरुद्धम् । 'लोभमूलानि पापानि' इति वचनात्
।।३५४ ।। तथा
"
-
कयविक्कयाणि निचं कुलजणवयअणुचियाण वत्थूणं । मणसो य निद्दयत्तं खरकम्मे वावडत्तं च ।। ३५५ ।।
कुलदेशाचारानुचितानां वस्तूनां क्रयविक्रयावपि धर्म्मविरुद्धम्, तदाचरणेन धर्म्मनिन्दो - पपत्तेः । तथा मनसश्चेतसो निर्दयत्वमनार्द्रत्वम् । धर्म्माधिष्ठितमनसो हि प्रायः कृपाकोमलमतय एव भवन्ति । तथा खरकर्म्मस्वारक्षपदादिषु व्यापृतत्वमपि प्रस्तुतविरुद्धम् । निरन्तरमार्त्तरौद्रध्यानानुबन्धित्वात् तेषां व्यापाराणामिति ।। ३५५ ।। अत्र विधेयतामभिधत्ते
एयाइं धम्मतरुमूल - जलिरजालावलीसमाणाइं । मुत्तव्वाइं नरेहिं सासयसिवसुक्खकंखीहिं । । ३५६ ।।
३५३
एतानि पूर्वोदितानि विरुद्धानि शाश्वतशिवसुखकाङ्क्षिभिः पुम्भिः सुदूरं मोक्तव्यानि । किम् ? इत्यत आह यतो धर्म्म एव तरुर्धर्मतरुस्तस्य मूलं सम्यक्त्वादि । तत्रै ज्वलज्वालावलीसमानानि । किमुक्तं भवति ? यथा हि तरुर्मूलदेशे ज्वलज्वलनज्वालावलीढः प्रौढोऽप्यचिरेण विनश्यति, एवं धर्म्मद्रुमोऽप्यमीभिर्विरुद्धाचरणैरिति ।।३५६।।
अथ किमर्थमयमियानभियोगो धर्म्मविरुद्धत्यागायेति चेत्, तदाह
कुलरूवरिद्धिसामित्तणाइ पुरिसस्स जेणमुवणीयं ।
धम्मस्स तस्स जुज्जइ कह नाम विरुद्धमाचरिउं ।। ३५७ ।। तस्यैवंविधस्य धर्म्मस्य कृतज्ञानां कथं विरुद्धमाचरितुं युज्यते । येन किम् ? येन पुरुषस्यैतदेतदुपनीतम् । किं तद् ? इत्याह- कुलमुग्रभोगादिकम् । रूपं समचतुरस्रसंस्थानादि । ऋद्धयः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org