SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा - ३४९, ३५०, ३५१, ३५२ - धर्म्मविरुद्धं त्याज्यम् ।। निपाते तोषधारणमपि विरुद्धम् । यतस्तत्र यथाशक्ति प्रतीकाराय यतनीयं न पुनस्तदेवानुमोदनीयम् । अतः सति सामर्थ्ये तदप्रतीकारोऽपि लोकविरुद्धम् । इत्थममुना प्रकारेणेत्यादीन्यन्यान्यपि एवम्प्रकाराणि लोकविरुद्धानि ज्ञेयानि यानि चेति ।। ३४८ ।। एतत्परिहारेण यद् भवति, तदाह - एयाइं परिहरंतो सव्वस्स जणस्स वल्लहो होइ । जणवल्लत्तणं पुण नरस्स सम्मत्ततरुबीयं । । ३४९ ।। एतानि पूर्वाचार्यनिदर्शितानि लोकविरुद्धानि परिहरन् पुमान् सर्व्वस्य जनस्य वल्लभो भवति । जनवाल्लभ्यं तु सम्यक्त्वतरोर्मूलबीजम् । सम्यक्त्वं तु मोक्षवृक्षस्येति ।। ३४९ ।। धर्म्मविरुद्धपरिहारं प्रस्तावयन्नाह देसविरुद्धाईणि उ इमाइं मुञ्चंति धम्मरक्खट्ठा तम्हा धम्मविरुद्धं परेण जत्तेण मुत्तव्वं । । ३५० ।। - देशादिविरुद्धान्यमूनि तु चत्वार्यपि धर्मरक्षार्थमेव मुच्यन्ते । तस्माद् धर्म्मस्यैव यद् विरुद्धं तत् परेण यत्नेन मतिमतां मोक्तव्यमिति । । ३५० ।। धर्म्मस्य निरुक्तमाह - धरइ पडतं जो दुग्गईइ दुक्खत्तसत्तसंघायं । सो s gas धम्मो तस्स विरुद्धं तु पुण इणमो । । ३५१ ।। - हास्मिन् जगति दुःखार्त्त सत्त्वसङ्घातं तिर्यङ्नारकादिरूपायां दुर्गती कुकर्म्मप्रेरणान्निपतन्तं यः किल धारयति । सुगतौ च स्थापयति स एव धर्म्म इति प्रोच्यते । अन्ये तु धर्म्माभासा एव । तस्य पुनविरुद्धमिदं वक्ष्यमाणम् ।।३५१।। तदेवाह ३५१ आसवदारपवित्ती अणायरो धम्मकम्मनिम्माणे । मुणिजणविद्देसित्तं चेइयदव्वस्स परिभोगो । । ३५२ ॥ गाथा - ३५१ 1. तुला - दुर्गतिप्रसृतान् जीवान् यस्माद्धारयते ततः । Jain Education International 2010_02 धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः । । १ । । - श्राव. ध. प्र. गा. ३ वृत्तौ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy