________________
३५०
हितोपदेशः । गाथा-३४६, ३४७, ३४८ - लोकविरुद्धं त्याज्यम् ।।
'सव्वस्स चेव निंदा विसेसओ तह य गुणसमिद्धाणं ।
उजुधम्मकरणहसणं रीढा जणपूयणिजाणं ।।३४६।। [पञ्चाशक-२/८] सर्वस्योत्तममध्यमाधमरूपस्य जनसमुदयस्य निन्दा सदसद्दूषणोद्धोषणरूपा । सा च महल्लोकविरुद्धम् । यतः-सर्वसत्त्वसाधारणा मैत्री चेत् कर्तुं न पार्यते तत् किं प्रत्युत तनिन्दा विधेया । तथा गुणैर्ज्ञानादिभिः समृद्धानां परभागमापनानां पुंसां विशेषतो निन्दा हेया । गुणिषु प्रमोदमिति वचनात् तथा प्रकृतिकोमलप्रज्ञत्वेन तथाविधचातुर्यवर्जितानामत एव ऋजुधर्मकरणप्रवणानां प्राणिनां हसनं तदपि विरुद्धम् । ते हि शनैः शनैः धर्मनैपुणमारोपणीया न तूपहसनीयाः । तथा विशिष्टगुणसङ्ग्रहेण जने पूज्यत्वं प्राप्तानामिहपरलोकगुरुप्रभृतीनां रीढाऽवज्ञा ।।३४६।। तथा -
बहुजणविरुद्धसंगो देसादायारलंघणं चेव ।
उब्बणभोओ य तहा दाणाइ वि पयडमन्ने उ ।।३४७।। [पञ्चाशक-२/९] बहवो मौलामात्यपौरप्रभृतयस्ते च ते जनाश्च बहुजनास्तैः सह केनापि प्रकृतिसमुत्थेन दूषणेन यो विरुद्धः सम्भृतमत्सरस्तेन सह सङ्गो बाह्याभ्यन्तरः परिचयस्तदपि लोकविरुद्धम् । तथा देशादा(द्या ?)चारलङ्घनम् । यो यत्र देशे विशिष्टजनाचीर्णो व्यवहारः, स देशाचारस्तस्य लङ्घनमन्यथाकरणं विरुद्धम् । तथा देशकालवयोविभूतिप्रभृतीनामनुचितस्तत एवोल्बण उद्भटो यो भोगस्तदपि जनविरुद्धम् । तथा प्रकटन्नरपतिसभादावुपश्लोकनीयं यद् दानादि तदप्यन्ये सूरयो लोकविरुद्धमाचक्षते । तथा चोक्तम् केनचित् स्वपुत्रशिक्षाऽवसरे -
सम्पदो विषयक्रीडा दानं च छन्नमेव नः । अलं भवति शोभायै शरीरमिव योषिताम् ।।१।। [त्रिषष्टि पर्व-१/२/३६] इति ।।।३४७ ।।
किञ्च -
साहुवसणंमि तोसो सइ सामत्थंमि अपडियारो य ।
एमाइयाइं इत्थ लोगविरुद्धाइं णेयाई ।।३४८।। [पञ्चाशक-२-१०] साधूनां गुरुदेवधर्मपरलोकास्तिक्यसदाचरणवतां कुतोऽपि कुकर्मप्रातिकूल्याद् व्यसनोप
गाथा-३४६ 1. तुला - मूलगाथायाः प्रतमध्ये सव्वस्स० गाथा-३४६ क्रमाङ्केन, तदनन्तरः साहूवसणंमि० गाथा-३४७ क्रमाङ्केन तदनन्तरः बहुजण० गाथा-३४८, क्रमाङ्केन दर्शिताः सन्ति ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org