SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-३४४, ३४५ - लोकविरुद्धं त्याज्यम् ।। ३४९ 'असियसयं किरियाणं अकिरियवाईण होइ चुलसीइ । अन्नाणि सत्तसट्ठी वेणइयाणं तु बत्तीसं ।।१।। [स्थानाङ्ग सू० ४/४/३४५] एतानि च लोकं भक्तपानवस्रोपाश्रयादिभिरुपजीवन्ति । किंविशिष्टानि ? स्वस्थानपरितुष्टानि स्वस्वधर्माचरणेन कृतार्थम्मन्यानि । अतः कथं स लोको लघुः ? कथं वा तद्विरुद्धमाचरितुमुचितम् ? यदवाचि वाचकमुख्येन - लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्ध धर्मविरुद्धं च सन्त्याज्यम् [प्रशमरति-गा० १३१] ।।१।। इति ।।३४३।। किञ्च - का वा परेसि गणना मुणिणो परिचत्तसव्वसंगा वि । देहस्स संजमस्स य रक्खट्ठा जमणुवत्तंति ।।३४४।। का वा परेषां किञ्चिदङ्गीकृतसङ्गानां पाखण्डिनां गणना । यावन्मुनयः सर्वज्ञपुत्रत्वेन परिज्ञातविज्ञेयवस्तुतत्त्वास्तत एव परित्यक्तसर्वसङ्गाः । केवलं कुक्षिशम्बलास्तेऽपि देहस्य संयमाधारस्य संयमस्य च सप्तदशभेदभिन्नस्य रक्षार्थं पालनार्थं यं लोकं मधुकरवृत्त्याऽनुवर्तन्ते । यदुवाच वाचकप्रवर एव - देहो नासाधनको लोकाधीनानि साधनान्यस्य । सद्धानुपरोधात्तस्माल्लोकोऽभिगमनीय ।।१।।[प्रशमरति-गा.१३२] इति ।।३४४।। एवं च सति कर्त्तव्यतामाह - तम्हा बहुमंतव्वो लोओ कुसलेहिं नावमंतव्यो । तस्स य विरुद्धमेयं पुव्वायरिएहिं निर्व्हि ।।३४५।। तस्मादशेषधर्मचारिणामाधारभूतोऽयं लोकः कुशलैर्बहुमानास्पदत्वमेव विधेयो, न पुनरवज्ञास्पदत्वम् । तस्य च विरुद्ध प्रतिकूलमेतद् वक्ष्यमाणं पूर्वाचार्यनिर्दिष्टम् ।।३४५।। तदेवाह - गाथा-३४३ 1. तुला - अयं साक्षीपाठः भगवतीसूत्र ३०/१ । स्थानाङ्ग सू० ४/४/३४५, तत्त्वार्थसूत्र - सर्वार्थसिद्धिवृत्तिः ८/१, आचाराङ्गशीलाङ्काचार्यवृत्तितः १/१/३ । गोम्मटसारकर्मकाण्डः गा. ८७६ ।। - प्रव० सा० गा. ११८८ मध्य दृश्यतां ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy