SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा - ३४०, ३४१, ३४२, ३४३ - लोकविरुद्धं त्याज्यम् ।। च पिण्डरूपेण विनश्वरोऽपि पितृपुत्रपौत्रादिप्रवाहरूपेण शाश्वतस्वरूपः । तस्य चाचारः पुरुषार्थप्रतिबद्धः शिष्टजनाचीर्णश्च व्यवहारः । तस्य विरुद्धं विलोमं लोकविरुद्धमिति विज्ञेयम् ।। ३३९ ।। तत्र कर्त्तव्यतामाह ३४८ व तं पि कुसलो असिलोगकरं सया सयायारो । सारो इमो वि धम्मस्स जेण जिणसासणे भणिओ ।। ३४० ।। देशकालराजविरुद्धवत् तदपि लोकविरुद्धं कुशलः कलावान् सदाचारश्च सदा सर्वकालं वर्जयेत् । किम् ? इत्यत आह - अश्लोककरमकीर्तिनिबन्धनम् । हेत्वन्तरमप्याह - येन जिनशासने अहिंसासूनृतादिवदयमपि लोकविरुद्धपरिहारो धर्म्मस्य सारतया तत्त्वरूपतया भणितस्तस्मादुपादेय एव । । ३४० ।। यतः लोयायारविरुद्धं कुणमाणो लहु लहुत्तणं लहइ । लहुयत्तणं च पत्तो तिणं व न नरो वि कज्जकरो ।। ३४१ ।। लोकाचारविरुद्धं कुर्वन्नरः पुमान् लघु शीघ्रं करणसमनन्तरमेव किमनेन जनसंव्यवहारबाह्येनेति सर्वत्र लघुत्वमवज्ञास्पदत्वं प्राप्नोति । लघुभूतश्च तृणवदकिञ्चित्कर एव भवति ।। ३४१ ।। किञ्च - कह लहउ न बहुमाणं लोओ लोउत्तरा नरा जत्तो । होऊण तिहुयणं पि हु दुहजलनिलयाओ तारिंसु ।।३४२ ।। कथं वासौ लोको जगति बहुमानं गौरवं न लभताम् । यतो यस्माल्लोकात् केचन लोकोत्तरास्तीर्थकृद्गणधरप्रायाः पुरुषप्रवरा भूत्वा समुत्पद्य त्रिभुवनमपि त्रिजगतीगतं योग्यजन्तुजातं भवोद्भवदुःखाम्बुराशेस्तारयामासुः || ३४२।। अन्यच्च तिन विसया तिसट्टा पासंडीणं सठाणपरितुट्ठा । जं उवजीवंति सया कहं स लोओ लहू होउ ।।३४३ ।। स लोकः कथं नाम लघुर्भवतु । यं अशीत्यधिकं शतं क्रियावादिनाम् । चतुरशीतिरक्रियावादिनाम् । सप्तषष्टिरज्ञानिनाम् । द्वात्रिंशद् वैनयिकानाम् । एवम्प्रकाराण्यमूनि त्रिषष्ट्यधिकानि त्रीण्यपि शतानि पाखण्डिनाम् । उक्तं च - Jain Education International 2010_02 - For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy