SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-३३८, ३३९ - राज्यविरुद्ध लोकविरुद्धं च त्याज्यम् ।। ३४७ एवं च सति यद् विधेयं तदाह - तम्हा रायविरुद्धं विद्धंसियधम्मकम्मसम्बन्धं । न कयाइ कुसलबुद्धी बुद्धीइ वि संपहारिति ।।३३८।। तस्मादेवं सति राजविरुद्धं नृपतिप्रतिकूलं कुशलबुद्धयः कल्याणमतयः आस्तां कर्त्तव्यतया यावद् बुद्ध्याऽपि न सम्प्रधारयन्ति मनसाऽपि न व्यवस्यन्ति । किम्भूतं ? विध्वस्तधर्मकर्मसम्बन्धम् । राजविरुद्धकारिणां हि कुतः परत्र हितेन धर्मेण इहलोकोपयोगिभिश्च द्रव्यादिभिः सह सम्बन्ध इति ।।३३८ ।। एवं राजविरुद्धपरिहारमभिधाय लोकविरुद्धमपि त्याज्यत्वेन बिभणिषुरादौ लोकस्वरूपमाह - लोओ जणु त्ति वुञ्चइ पवाहरूवेण सासयसरूवो । तस्सायारविरुद्ध लोयविरुद्धं ति विनेयं ।।३३९।। लोकशब्दस्तिर्यङ्नरनारकामरसाधारणोऽप्यत्र मर्त्यवाची । स एव च जनशब्दाभिधेयः । स गाथा-३३९ 1. तुला - लोकविरुद्धं तु लोकस्य निन्दा विशिष्यस्य च गुणसमृद्धस्येयम्, आत्मोत्कर्षश्च, यतः“परपरिभवपरिवादादात्मोत्कर्षाञ्च, बध्यते कर्म । नीचेोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ।।१।। - प्रशमरतौ-१०० ।। तथा ऋजूनामुपहासः । गुणवत्सु मत्सरः, कृतघ्नत्वं च बहुजनविरुद्धैः सह सङ्गतिः, जनमान्यानामवज्ञा, धर्मिणां स्वजनानां वा व्यसने तोषः, शक्तौ तदप्रतिकारो, देशाधुचिताचारलङ्घनम्, वित्ताद्यननुसारेणात्युद्भटातिमलिनवेषादिकरणम्, एवमादिलोकविरुद्धमिहाप्यपकीर्त्यादिकृत् । यदाह वाचकमुख्य: - “लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ।।१।। - प्रशमरतौ-१३१ ।। तत्त्यागे च जनानुरागस्वधर्मनिर्वाहरूपो गुणः । आह च - "एआई परिहरंतो, सव्वस्स जणस्स वल्लहो होइ ।जणवल्लहत्तणं पुण, नरस्स सम्मत्ततरुबीयं ।।१।। इति । हितो० ३४९ ।। -- धर्म सं० अधि० २ गा. ६३ वृत्तौ ।। लोकविरुद्धानि कार्याणि दृश्यतां पञ्चा०२ - गा०८-९-१० अभ० वृत्तौ ।। 'इहलोकविरुद्धं' परनिन्दादि, यदुक्तम् - "सव्वस्स चेव निंदा, विसेसओ तह य गुणसमिद्धाणं । उज्जुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ।।१।। बहुजणविरुद्धसंगो, देसादाचारलंघणं तह य । उव्वणभोगो य तहा, दाणाइ वि पयडमन्नेसिं ।।२।। साहुवसणम्मि तोसो, सइ सामत्थम्मि अपडियारो य । एमाइयाई इत्थं, लोगविरुद्धाइं नेयाणि ।।३।।" इति - पञ्चा० २/गा. ८-९-१० Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy