SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३४६ हितोपदेशः । गाथा-३३५, ३३६, ३३७ - राज्यविरुद्धं त्याज्यम् ।। विरक्तमहाजनः क्षितिपतिरपि न चिरं नन्दति । किं पुनस्तदनुजीविन इति ।।३३४ ।। अन्यञ्च - सत्तुप्पउत्तगूढाभिमरचरेहिं बहु पि वेलविओ। चिंतइ दिन्नदुहोहं मणसा वि न सामिणो दोहं ।।३३५।। किल नृपतीनामन्तरङ्गमासन्नचरं नरमुपश्रुत्य तदरातयः प्रचुरद्रव्यादिप्रलोभनपुरःसरं तद्द्वारेण चिकीर्षति तीक्ष्णादिप्रयोगमतस्तनिषेधायाह-शत्रुप्रयुक्तैर्गुढरभिमरैश्चरैश्च बह्वपि विविधप्रकारमुपदादिभिर्विप्रलब्धोऽप्यास्तां वचःकायाभ्यां यावन्मनसापीहामुत्र च दत्तासुखसन्दोहं न चिन्तयति [स्वामिनः प्रभोः द्रोहमशुभमिति] ।।३३५ ।। कुत इति चेदित्याह - कह हीरइ तस्स जीयं जीवंते जम्मि जियइ जियलोओ । जं चउसु आसमेसुं गुरुं ति मन्त्रंति दंसणिणो ।।३३६।। कथं नाम महताऽपि कोशदेशादिलोभेन तस्य जगतीपतेर्जीवितं हियते । यस्मिन् जीवति सकलोऽपि तदाश्रितो जीवलोको जीवति । शतसहस्रलक्षम्भरित्वाद् भूभुजाम् । अतस्तत्प्राणप्रहाणे तेषां सर्वेषामयत्नसिद्धमेव विशसनम् । तथा यं राजानमासतां प्रकृतिपौरादयो दर्शनिनः पाखण्डिनोऽपि ब्रह्मचारिगृहिवानप्रस्थयतिलक्षणेषु चतुर्वाश्रमेषु विहितस्थितयो गुरुमिति मन्यन्ते । इदं तस्मै भूयाद् योऽस्मान् गोपायतीति ब्रुवाणा नीवारादिषष्ठांशेन स्वतपःषष्ठांशेन च संविभजन्ति च ।।३३६।। ननु ते ते सग्रन्थतया निजाश्रमादिरक्षार्थं पार्थिवाभ्युदयाय प्रयतन्ते । निर्ग्रन्थमुनीनां तु किं तेनेति चेत्, तदाह - निग्गंथा वि हु मुणिणो छत्तच्छायाइ जस्स निवसंता । उवसंतचित्ततावा पावाण कुणंति निग्गहणं ।।३३७।। आसतामन्ये निर्ग्रन्था जैनमुनयोऽपि यस्य भूपतेश्छत्रछायायां निवसन्तश्चिरचितानां पाप्मनां यमनियमादिभिर्निग्रहणं निरसनं कुर्वन्ति । किम्भूताः ? उपशान्तचित्ततापाः । असति हि धर्मविजयिनि राजनि सर्वत्रोपप्लतेषु संयमयोग्यक्षेत्रेषु कुतस्तेषां चित्तस्वास्थ्यं, तदभावे चासुकरः कल्मषक्षय इति ।।३३७।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy