SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-३३१, ३३२, ३३३, ३३४ - राज्यविरुद्धं त्याज्यम् ।। ____ ३४५ पुनः प्रस्तुतमेवाह - संते वि निवइदोसे न पयासइ कहवि कस्सवि समक्खं । अप्पे वि गुणे गुरुगोरवेण सव्वत्थ पयडेइ ।।३३१।। सतोऽपि नृपतिदोषान् कुतोऽपि हेतोस्तद्विरागवानपि कथमपि कस्यापि समक्षं न प्रकाशयति । दुरुदर्कत्वात्तदोषाविष्कारस्य । तद्गुणांस्तु स्वल्पानपि गुरुतरगौरवेण सर्वत्र सपक्षे विपक्षे वा प्रकटयति । तथा कृते हि नियतं प्रसीदन्ति तन्मनांसि । प्रसन्नाश्च नृदेवा देवा इव किं नाभीष्टं सङ्घटयेयुः ।।३३१।। किञ्च - नरनाहसम्मयाणं सम्माणं कुणइ सुबहु बहुमाणं । तप्पडिकूलेहिं समं समंतओ चयइ संगं पि ।।३३२।। नरनाथसम्मतानाममात्यपुरोधश्चमूपतिप्रतीहारप्रभृतीनां सुबहुबहुमानपुरस्सरं सम्मानं करोति । तत्सम्मानं हि नृपतिसम्मानमिव फलत्येवावसरेषु । तथा तत्प्रतिकूलैः प्रभुप्रतिपन्थिभिः सममास्तामादानदानव्यवहतिं यावत् सङ्गं सम्पर्कमात्रमपि सर्वात्मना त्यजति । तस्यापि दुरुदत्वात् ।।३३२।। तथा – न य तयरिजणवएसुं बहुलाभेसु वि गमागमं कुणइ । संघडइ न पडिभंडं तद्देसोवणयवणियाणं ।।३३३।। न च तस्य स्वस्वामिनोऽरिजनपदेषु वैरिदेशेषु बहुलाभेष्वपि सम्भाव्यप्रचुरद्रव्यायेष्वपि गमागमं यातायतं करोति । तथा तद्देशोपनतानां वैरिजनपदादुपनतानां वणिजां निगमानां प्रतिभाण्डं तदानीतपण्यप्रतिपण्यं न सङ्घटयति । उभयस्याप्येतस्य राजापथ्यभूतत्वेन परिणामदारुणत्वात् ।।३३३।। किञ्च - लद्धं पहुबहुमाणं अप्पाणं चिय न मनइ पहुं ति । . निवतेयतरलिओ नायराण नायरइ पडिकूलं ।।३३४।। कदाचित् सुकृतसन्ततिसम्मुखीकृतात् प्रभोर्बहुमानं प्रसादं प्राप्याप्यात्मानमेव प्रभुमिति मन्यमानस्तद्विधेयेषु विधिनिषेधादिषु स्वच्छन्दतया न प्रवर्त्तते । तथा नृपतेजसा राजवर्चसा तरलितस्तन्मयतामापन्नो नागराणां पौराणां प्रतिकूलं विरुद्धं नाचरति । प्रतिकूलाचरणेन Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy