SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३४४ हितोपदेशः । गाथा-३२८, ३२९, ३३० - राज्यविरुद्धं त्याज्यम् ।। देशकालविरुद्धद्वारे निगमयन्नाह - पुरिसो देसविरुद्धं कालविरुद्धं च मुणिय मुंचंतो । होइ पुरिसत्थभागी अणत्थसत्थे य नित्थरइ ।।३२८ ।। देशविरुद्धं कालविरुद्धं च पूर्वोपवर्णितं सम्यक् परिज्ञाय मुञ्चन् पुमान् धर्मार्थकामानां भाजनं भवति । इहपरलोकप्रतिबद्धाननर्थसार्थांश्च निस्तरति । अतस्त्याज्य एव देशकालप्रतिकूले ।।३२८ ।। साम्प्रतं नृपतिविरुद्धं हेयतयोपदर्शयन्नाह - निवइविरुद्धं पुण निउणबुद्धिणा नियमसो न कायव्वं । सामनजणविलक्खण - तेयसिरिभासुरा जं ते ।।३२९।। नृपतिविरुद्धं राजद्विष्टं पुनर्निपुणमतिना चतुरचेतसा नियमेन न विधेयम् । किमित्याह - यतस्ते क्षितिपतयः सामान्यजनविलक्षणतेजो लक्ष्मीललिततनवः स्युः ।।३२९।। तथा च सति किमभूदिति चेत्, तदाह - इयरो वि नरो न सहइ अप्पंमि विरुद्धमायरिजंतं । किं पुण लोउत्तरविरिय - दुद्धरा धरणिधायारो ।।३३० ।। इतरः स्वोदरम्भरिरपि पुमानात्मविरुद्धं विधीयमानं प्रतिकर्तुमसमर्थो न विषहते । निर्विषोऽपि भुजङ्गम इव दण्डादिघट्टितः फटाटोपमुपकल्पयति । धरणिभृतः पुनर्लोकोत्तरवीर्यदुर्द्धर्षाः किमित्यात्मनः प्रतिकूलमुपकल्प्यमानं विषहिष्यन्ते । अनाविष्कृतशक्तयस्तरस्विनोऽपि नियतमभिभवनीया भवेयुः । उक्तं च - अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते । निवसन्नन्तर्दारुणि लवयो वह्निर्न तु ज्वलितः ।।१।।[ ] इति ।।३३० ।। गाथा-३२९ 1. तुला - राजविरुद्धं च राज्ञः सम्मतानामसम्माननम्, राज्ञोऽसम्मतानो सङ्गतिः, वैरिस्थानेषु लोभाद्गतिर्वैरिस्थानागतैः सह व्यवहारादि, राजदेयभागशुल्कादिखण्डनमित्यादि ३ ।। - धर्म सं. अधि. २ - गा. ६३ वृत्तौ । _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy