________________
हितोपदेशः । गाथा - ३२५, ३२६, ३२७ - कालविरुद्धं त्याज्यम् ।।
न केवलं देशविरुद्धमेव परिहरति, यावदन्यदेशिकानां पुरतस्तद्देशतिरस्कारं न कुरुते । यतः सर्वपक्षपातेभ्यो हि स्वदेशपक्षपातस्य गुरुत्त्वात्तस्मिंश्च तिरस्क्रियमाणे तैः सह दा केशाकेशि-दण्डादण्डि-शस्त्राशस्त्रिप्रभृतयोऽपि सम्भवेयुरतः किं तेनानर्थदण्डेन ।।३२४।। एवं देसविरुद्धं कालविरुद्धं तु इह इमं नेयं । पत्थाणमपत्थावे तं कीरइ किर नरेणेवं ।। ३२५।।
एवमुक्तस्वरूपं देशविरुद्धम् । 'कालविरुद्धं त्विहास्मिन् विरुद्धाधिकारे इदं ज्ञेयम् । यत् किलायत्यपर्यालोचना नरेणैवं वक्ष्यमाणेऽप्रस्तावेऽसमये प्रस्थानं विधीयते ।। ३२५ ।।
अप्रस्तावमेव व्यनक्ति
हेमंते हिमगिरिपरिसरेसु गिम्हे मरुत्थलपहेसु । वासासु अवरदक्खिणसमुद्दपेरंतभागेसु ।। ३२६ ॥ अइदुब्भिक्खे नरनाहविग्गहे मग्गरोहकंतारे । असहायस्स पओसे पत्थाणमणत्थपत्थारी ।। ३२७।।
३४३
एतेषु प्रस्तावेषु यदत्यन्तलोभाट ेतुभिः प्रस्थानं क्रियते, तत् केवलमात्मनोऽनर्थप्रस्तरणमेव । केषु ? इत्याह
असहायस्येति प्रत्येकमभिसम्बध्यते । हेमन्ते शीतत हिमगिरिपरिसरेषु तुषारभूधरसन्निधानाध्वसु यत् प्रस्थानम् । ग्रीष्म एव तत्र प्रायः सञ्चारयोग्यत्वात् । तथा ग्रीष्मे तपत मरुस्थलमार्गेष्वत्यन्तजाङ्गलेषु । वर्षादावेव प्रायस्तेषु चङ्क्रमणोपपत्तेः । तथा वर्षास्वपरदक्षिणसमुद्रपर्यन्तभागेषु । तदा हि तेषामत्यन्तपिच्छिलपङ्काकुलत्वेन दुर्विगाह्यत्वात् । तथा अतिदुर्भिक्षे सार्वत्रिकेऽवमे । नरनाथविग्रहे क्षितिभुजां मिथः सम्प्रहारोपक्रमे । मार्गरोधे नृपतिजनित एवाध्वसंरोधे । कान्तारे निर्मानुषभीषणारण्ये । प्रदोषे यामिनीमुखे । अन्यत्राप्येवम्प्रकारे प्रस्तावे असहायस्य स्वशरीरमात्रद्वितीयस्य पुंसः प्रस्थानं धनप्राणोभयव्ययहेतुत्वादनर्थायैव । जनसमुदाये तु कदाचिदुत्तीर्यन्त एव दुर्गाणि | | ३२६ ।। ३२७ ।।
I
-
गाथा - ३२५ 1. तुला - कालविरुद्धं त्वेवं शीतर्तौ हिमालयपरिसरे, ग्रीष्मर्ती मरो, वर्षासु अपरदक्षिणसमुद्रपर्यन्तभागेषु, महारण्ये यामिनीमुखवेलायां वा प्रस्थानम् । तथा फाल्गुनमासाद्यनन्तरं तिलपीलनम्, तद्व्यवसायादि, वर्षासु वा पत्रशाकाग्रहणादि ज्ञेयम् २ । धर्म सं. अधि. २ - गा. ६३ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org