________________
३४२ हितोपदेशः ।गाथा-३२१, ३२२, ३२३, ३२४ - पञ्चदेशादिविरुद्धानिनामानि ।।देशविरुद्ध त्याज्यम् ।।
नरः पुमानुचिताचरणेन पूर्वोपवर्णितेन लब्धप्रसिद्धिरपि चिरं न नन्दति स्थिरश्रीभाजनं न भवति । किं तु कुर्खन् ? देशादिविरुद्धानि वक्ष्यमाणानि पञ्चामुञ्चन् । अतो हे शिष्य ! तानि त्यज ।।३२० ।। तान्येवाह -
देसस्स य कालस्स य निवस्स लोगस्स तह य धम्मस्स । ___ वजंतो पडिकूलं धम्मं सम्मं च लहइ नरो ।।३२१।। 'देशस्य कालस्य नृपस्य लोकस्य धर्मस्य च प्रतिकूलं विरुद्धं वक्ष्यमाणस्वरूपं वर्जयन्नरो धर्मं त्रिवर्गसारं शर्म च सर्वेन्द्रियाह्लादकं लभते । 'धर्माविनाभूतत्वाच्छर्मणः' ।।३२१ ।। तत्रादौ देशलक्षणमाह -
एगस्स भूमिवइणो नयरस्स व जो हविज पडिबद्धो ।
भूभागो सो देसो तस्स विरुद्धं तु पडिकूलं ।।३२२।। एकस्य भूमिपतेर्नगरस्य वा यो भूभागः प्रतिबद्धः स देशस्तस्य च विरुद्धं प्रतिकूलं । यथा लाटानां सुरासन्धानम्, सौवीराणां कृषिकर्म, इत्याद्यन्यदपि यद् यत्र देशे शिष्टजनैरनाचीर्णं तद् विरुद्धम् ।।३२२।। तस्य च किं विधेयमित्याह -
तं पुण नरेण जत्तेण बुद्धिमंतेण नेव कायव्वं ।
गिहमित्तस्स वि कीरइ न विरुद्धं किमुय देसस्स ।।३२३।। तत् पुनर्देशविरुद्धं बुद्धिमता नरेणायतिहितार्थिना नैव कर्त्तव्यम् । किमित्याह - यतो गृहमात्रस्यापि विरुद्धं न विधीयते किमुत देशस्य, तस्य सुतरां परिहरणीयत्वात् ।।३२३।।
न य अन्नदेसियाणं पुरओ तद्देसखिसणं कुणइ । सव्वेसिं पक्खवायाण देसपक्खो जओ गरुओ ।।३२४।।
गाथा-३२१ 1. तुला - तथा देशादिविरुद्धपरिहारो देश-काल-नृप-लोक-धर्मविरुद्धवर्जनम्, यदुक्तं हितोपदेशमालायाम् - "देसस्स य कालस्स य, निवस्स लोगस्स तह य धम्मस्स । वजंतो पडिकूलं, धम्म सम्मं च लहइ नरो ।।१।। तत्र यद्यत्र देशे शिष्टजनैरनाचीर्णं तत्तत्र देशविरुद्धम्, यथा सौवीरेषु कृषिकर्मत्यादि । अथवा जातिकुलाद्यपेक्षया देशविरुद्धम्, यथा ब्राह्मणस्य सुरापानमित्यादि १ । - धर्म सं. अधि० २ - गा. ६३ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org