SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-३१९-२० - उत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे अष्टमं देशादिविरुद्धपरिहारप्रतिद्वारं ।। ३४१ जलनिधयः समुद्रा मर्यादामवधिं न मुञ्चन्ति । विपुलकल्लोलमालावलीढनभस्तला अपि वेलां नातिवर्त्तन्ते । अचलाः क्षोणिभृतोऽपि विततवात्यादिप्रकम्पिता अपि न चलन्ति । एवमेवोत्तमनराः प्रधानपुमांसः कदाचिदप्युचिताचरणं पूर्वोदितं न लङ्घयन्तीति ।।३१८ ।। एतदेव दृष्टान्तेन स्पष्टयति - तेणं चिय जयगुरुणो तित्थयरा वि हु गिहत्थभामि । अम्मापिऊणमुचियं अब्भुट्ठाणाइ कुव्वंति ।।३१९।।। तेनैव लोकोत्तमत्वगुणेन जगद्गुरवस्तीर्थकरा अपि भोग्यफलकर्मवशाद् गृहस्थभावे वर्तमाना मातापित्रोरुचितमभ्युत्थानादिकं विनयकर्म कुर्वते । अतो यदि लोकोत्तरां तीर्थकृत्पदवीमासेदिवांसस्त एव जगतामपि गुरवो जिनाः समये समुचिताचरणं चरितवन्तस्ततः कथमितरैस्तत्र न प्रयतितव्यमित्यर्थः ।।३१९।। यतः - विद्याः सन्तु चतुर्दशाऽपि सकलाः खेलन्तु तास्ता: कलाः । कामं कामितकामकामसुरभिः श्री: सेवतां मन्दिरम् । दोर्दण्डद्वयडम्बरेण तनुतामेकातपत्रां महीम् । न स्यात् कीर्तिपदं तथापि हि पुमानौचित्यचञ्चुर्न चेत् ॥१।। अपि च - आदेयत्वमसंस्तुतेऽपि हि जने विस्तारयत्यञ्जसा । दुर्वृत्तानपि सान्त्वयत्यवनिभृत्प्रायानपायोद्यतान् । तत् संवर्गयति त्रिवर्गमिह चामुत्रापि यस्माच्छुभम् । किं वा तन तनोति यत् सुकृतिनामौचित्यचिन्तामणिः ।।२।। इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वर्तिनि उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे सप्तममुचिताचरणप्रतिद्वारं समाप्तमिति ।।३१९ ।। श्रीः ।। व्याख्यातमुचितद्वारम् । साम्प्रतं देशादिविरुद्धपरिहारद्वारमाचिख्यासुराह - उचियाचरणेण नरो लद्धपसिद्धी वि नंदए न चिरं । देसाईविरुद्धाइं अचयंतो ते तओ चयसु ।।३२०।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy