________________
हितोपदेशः । गाथा-३१४, ३१५ - परतीर्थिकविषयम् औचित्यम् ।।
३३९
पाशुपत-महाव्रत-कालामुखभेदैश्चतुप्रकाराः एव । मीमांसकस्तु कर्ममीमांसकब्रह्ममीमांसकभेदाद् द्विधा । तत्र कर्ममीमांसका द्विजन्मानो, ब्रह्ममीमांसकाश्च भगवन्त एव । कापिलाश्च सांख्यास्तेषां च न किञ्चिन्मुद्रानैयत्यम् ।
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ।।१।। [
] इति तदर्शनव्यवस्थितेः । कौलाश्च नास्तिका योगिदर्शनदृश्या इति दर्शनिनः ।।३१३ ।। यच्चामीषां विधेयं तदाह -
एएसि तित्थियाणं भिक्खट्ठमुवट्ठियाण नियगेहे ।
कायव्वमुचियकिञ्चं विसेसओ रायमहियाणं ।।३१४।। एतेषां पूर्वोदितानां तीथिकानां दर्शनिनां भिक्षार्थं भक्तादिनिमित्तं निजगेहे समुपस्थितानामुचितकृत्यमागतस्वागतवाञ्छितार्थविश्राणनादिकं सामान्येनैव विधेयम् । राजमहितानां नरपत्यमात्यादिपूजितानां पुनस्तदेव सविशेषमिति ।।३१४ । । अथ किमर्थममीषामसंयतानामेवं विधीयत इति चेत्, तदाह -
जईवि न मणंमि भत्ती न पक्खवाओ तग्गयगुणेसु ।
उचियं गिहागएसं ति तहवि धम्मो गिहीण इमो ।।३१५।। गाथा-३१४ 1. तुला - "एएसि तित्थिआणं, भिक्खट्ठमुवट्ठिआण निअगेहे ।
कायब्वमुचिअकिचं, विसेसओ रायमहिआणं ।।४२।।" उचितकृत्यं यथार्हदानादि । "जइवि मणमि न भत्ती, न पक्खवाओ अ तग्गयगुणेसुं । उचिअंगिहागएK, तहवि हु धम्मो गिहीण इमो ।।४३।।" पक्षपातोऽनुमोदना, धर्म आचारः ।। "गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वेसि सम्मओ धम्मो ।।४४।।" पुरुषमपेक्ष्य मधुरालपनाऽऽसननिमन्त्रणाकार्यानुयोगतन्निर्माणादिकमुचितमाचरणीयं निपुणैः । अन्यत्राप्यूचे - "सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाई ।।१।। मुंचंति न मजायं, जलनिहिणो नाचलावि हु चलंति । न कयावि उत्तमनरा, उचिआचरणं विलङ्घन्ति ।।४५।। तेणं चिअजगगुरुणो, तित्थयरावि हु गिहत्थवासंमि । अम्मापिऊणमुचिअं, अन्भुट्ठाणाई कुव्वंति ।।४६।।" । इत्थं नवधौचित्यम् ।
- धर्म सं. अधि. २ गा. ६३ वृत्तौ ।। नवधा औचितस्य स्वरूपम् श्राद्धविधिप्रकरणेऽपि हितोपदेशमालागाथाभिः दर्शितम् ।
दृश्यतां श्राद्ध वि. प्र. प्र. प्रकाश पत्राङ्क-२३१-२४७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org