________________
३३८
हितोपदेशः । गाथा-३११, ३१२, ३१३ - परतीर्थिकविषयम् औचित्यम् ।।
द्विजन्मनः क्षमा मातुढेषः प्रीतिः पणस्त्रियः ।
नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् ।।१।।। ] इति । पूर्वोपात्तवित्तनि मनाशाय च कृत्रिमानपि दोषानुत्पाद्य प्रत्युत्तान् नृपनिग्राह्यान् विदधति । 'उत्पाद्य कृत्रिमान् दोषान् धनी सर्वत्र बाध्यते' इति श्रुतेः । अतः कारणिकैरपि सममर्थसम्बन्धः क्रियमाणः किलैवं दुर्विपाकः । प्रभुणा स्वामिना सार्द्धं धनव्यवहारमनिधनकामः क इव कुर्यात् यतः सामान्योऽपि क्षत्रियो वित्तार्थमभियुक्तः खड्गं दर्शयति, किं पुन: प्रकृत्यमर्षणा: क्षोणिभुजस्तस्मादात्मनः कुशलमभिलषता राज्ञा राजवर्गेण च सममर्थसम्बन्धः सर्वथा त्याज्य एवेति ।।३१०।। साम्प्रतं नागरौचित्यं निगमयन् परतीर्थिकौचित्यं चोपक्षिपन्नाह -
एयं परुप्परं नायराण पाएण समुचियाचरणं ।
परतित्थियाण समुचियमह किंपि भणामि लेसेण ।।३११ ।। एतदुक्तप्रकारं परस्परमन्योन्यं नागराणां पौराणां प्रायो बाहुल्येन समुचिताचरणमवसेयम् । अथानन्तरं परतीथिकानां समुचितमपि किमपि लेशेन भणामि ।।३११ । ।
ननु षण्णामपि दर्शनिनां परशब्दस्य साधारणत्वाद् यो यदा वक्ता भवति स तदात्मव्यतिरिक्तानेव परशब्देनाभिधत्ते । अतोऽत्र परतीर्थिकशब्देन के नाम वक्तुमभीष्टा इत्याशङ्कयाह -
कविभावो किर कव्वं कवी य जिणदसणी इहं ताव ।
तदविक्खाए तेणं एए परतित्थिणो नेया ।।३१२।। इदं हि तावत् काव्यं कविभावरूपं । कवेर्भावः काव्यमिति व्युत्पत्तेः । इह च कविर्जेनदर्शनी श्वेताम्बरः । अतस्तदपेक्षयाऽत्र तावदेते वक्ष्यमाणाः परतीथिनो विज्ञेयाः ।।३१२।। तानेवाह -
सुगयभयवंतसइवा पत्तेयं ताव चउचउभेया ।
मीमंसगो दुभेओ काविलकोला य दंसणिणो ।।३१३।। एते दर्शनिनोऽत्र परतीर्थिकशब्दवाच्या: । के? इत्याह - सुगताः, भगवन्तः, शैवाः, मीमांसकः, कापिलः, कौलश्चेति । तत्र सुगता वैभाषिक-सौत्रान्तिक-योगाचार-माध्यमिकभेदाश्चतुष्प्रकाराः । भगवन्तोऽपि कुरीचर-बहूदक-हंस-परमहंसभेदात्तावन्तः । शैवा अपि शैव
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org