________________
हितोपदेशः । गाथा-३०८, ३०९, ३१० - नागरविषयम् औचित्यम् ।।
३३७
समुवट्ठिए विवाए तुलासमाणेहिं चेव ठायव्वं ।
कारणसाविक्खेहिं वि विहुणेयव्वो न नयमग्गो ।।३०८।। विवादे धन-धान्य-वास्तु-वसुधादिविषये पक्षद्वयस्य विसंवादे समुपस्थिते महाजनप्रधानैस्तुलासमानैर्मध्यस्थतया खरतरन्यायदर्शिभिरेवावस्थेयम् । स्वजनसम्बन्धिबान्धवज्ञातेयलञ्चोपचारादिकारणसापेक्षैस्तु नयमार्गो न विधूनयितव्यः । विवादे हि कृतपक्षतायां सपक्षा अपि ते क्षितिपतिप्रकोपभाजनतां भजन्ते ।।३०८ ।। तथा -
बलिएहिं दुब्बलजणो सुंककराईहिं नाभिभवियव्यो ।
थेवावराहदोसे वि दंडभूमिं न नेयव्यो ।।३०९।।। वित्तनृपतिप्रसादादिभिर्बलवत्तरैर्दुर्बलस्तद्वयविनाकृतो जनः शुल्काधिक्येनोद्भूतिककराक्रान्त्या च नाभिभवनीयः । तथा स्तोकापराधदोषे स्वल्पेऽप्यागसि दण्डभूमिं नृपनिग्रहणीयतावस्थां न प्रापयितव्यः । शुल्काधिक्य-करोपचय-नृपनिग्रहादिभिरभिहन्यमानास्ते तेष्वचिराद् विरागं भजन्ते । विरक्ताश्च शनैः शनैः संहतिमुज्झन्ति । तत्संहतिविनाकृताश्च बलवत्तरा अपि वनसंहतिविरहिताः सिंहा इवाभिभूयन्ते एव । तस्मात् परस्परसंहतिरेव श्रेयस्करी । उक्तं च -
संहतिः श्रेयसी पुसां स्वपक्षे तु विशेषतः ।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तन्दुलाः ।।१।। [ ] इति ।।३०९।। किञ्च -
कारणिएहिं पि समं कायव्वो ता न अत्थसंबंधो ।
किं पुण पहुणा सद्धिं, अप्पहियं अहिलसंतेहि ।।३१०।। आत्महितं स्वस्योत्तरोत्तरां श्रेयःसंहतिमभिलषद्भिः पुम्भिस्तावत् कारणिकैरपि श्रीव्ययराजदेवधर्मोपपदकरणनियुक्तैस्तदुपजीविभिश्चान्यैरपि सममर्थसम्बन्धो द्रव्यव्यवहारः कदाऽपि न कर्त्तव्यः । ते हि धनदानावसर एव प्रायः प्रसन्नमुखरागाः प्रकटितकृत्रिमालापसम्भाषणासनताम्बूलप्रदानादिबाह्याडम्बराः सौमनस्यमाविर्भावयन्ति, प्रस्तावे च स्वदत्तमपि वित्तं याचितास्तिलतुषमात्रमपि स्वोपकारं प्रकटमुद्धट्टयन्तस्तदेव दाक्षिण्यमुन्मुञ्चन्ति । स च स्वभाव एव तेषाम् । यतः -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org