________________
हितोपदेशः । गाथा-३०६, ३०७ - नागरविषयम् औचित्यम् ।।
स्पष्टा । केवलं स्वसमानवृत्तयो वणिग्वृत्तिजीविन इत्यर्थः ।।३०५ ।। तदौचित्यमेवाह -
समुचियमिणमो तेसिं जमेगचित्तेहिं समसुहदुहेहिं ।
वसणूसवतुल्लसमागमेहिं निचंपि होयव् ।।३०६।। तेषामिदं समुचितं यत् तैः सहैकचित्तैरभिन्नाभिप्रायैः । समसुखदुःखैस्तत्सुखसुखितैस्तहुःखदुःखितैश्च । तथा व्यसनोत्सवतुल्यसमागमैः तद्व्यसनागमे स्वयमपि व्यसनावलीद्वैरिव, तदुत्सवे च समुच्छलदतुच्छोत्सवोत्साहैरिव भाव्यम् । एकचित्ततादिव्यतिरेके तु परस्परोदासीना नृपतिनियोगिमृगयूनामामिषमेव पौरलोकाः ।।३०६।। तथा -
कायव्वं कज्जे वि हु न इक्कमिक्केण दंसणं पहुणो ।
कज्जो न मंतभेओ पेसुन्नं परिहरेयव्वं ।।३०७।। महति पार्थिवोपस्थानीयेऽपि कार्ये पृथक् पृथक् प्रभुत्वाभिलाषेणैकैकशः स्वामिनो दर्शनं न विधेयम् । तथा कृते हि तदितरेषां तद्विषयो महानप्रत्ययः स्यात्, तदुत्थाश्चोपेक्षादयो भूयांसो दोषाः । बहुस्वामिकं च वृन्दमवसीदत्येव । उक्तं च -
सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः ।
सर्वे महत्त्वमिच्छन्ति तद् वृन्दमवसीदति ।।१।। तस्मात् समुदितैरेव नृपदर्शनविज्ञापनादि विधेयम् । तथा किञ्चिदायतिकार्यं कार्यमवधार्य निभृतं सम्भृतस्य मन्त्रस्य भेदो राजगोचरीकरणं न विधेयम् । स्फुटीभूते हि मन्त्रे चिन्तितार्थव्यर्थत्वपार्थिवप्रकोपादयो दोषाः प्रादुःषन्त्येव । तस्मात् संवृतमन्त्रैर्भाव्यम् । तथा पैशुन्यं राज्ञस्तदुपजीविनां वा पुरः संहर्षवशात् परस्परदूषणोद्धोषणं परिहर्त्तव्यम् । तथाकुर्वाणा हि ते तेषामकल्पनीया भवेयुर्लब्धमध्याश्च तूलपूलादपि लघुत्वान्न कार्यकारिणः । असाराणामपि बहूनां समुदय एव यतो जयवान् ।। उक्तं च -
बहूनामप्यसाराणां समुदायो जयावहः ।
तृणैरावेष्टिता रज्जुर्यया नागोऽपि बध्यते ।।१।।। तस्मान प्रकटनीया स्वमुष्टिरिति ।।३०७ ।। अन्यच्च -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org