________________
हितोपदेशः । गाथा-३०३, ३०४,३०५ - धर्माचार्यविषयम् औचित्यम् ।। नागरविषयम् औचित्यम् ।। ३३५
सच्चरित्रवतां तत्रभवतां भवतामिति प्रेरयति । कथमेकान्ते विविक्ते । यथा न भवत्यपभ्राजना भगवत्प्रवचनस्येति ।।३०२ ।। तथा -
कुणइ विणओवयारं भत्तीए समयसमुचियं सव्वं ।
गाढं गुणाणुरायं निम्माइं वहइ हिययम्मि ।।३०३।। तेषां धर्माचार्याणां समयसमुचितं प्रस्तावसदृशमशेषमपि सम्मुखाभ्युत्थानासनप्रदानकरचरणदेहसंवाहनादिकं विनयोपचारं भक्त्या निर्व्याजया मानसप्रीत्या करोति, न तु निकृतिपरतया । तथा हदि गाढमनपायिनं गुणानुरागं ज्ञानदर्शनचारित्रानुगतं प्रशस्तमनुरागं निर्मायमकृत्रिमं वहति ।।३०३।। अपरं च -
भावोवयारमेसि देसंतरिओ वि सुमरइ सया वि ।
इय एवमाइगुरुजणसमुचियमुचियं मुणेयव्वं ।।३०४।। अमीषां सम्यक्त्वदानादिकं भावोपकारं देशान्तरितेऽपि गुरुविरहितेऽपि देशे निवसनिरन्तरमनुस्मरति । इति प्रोक्तस्वरूपमादिशब्दादन्यदपि सर्वाचार्यप्रणीतं गुरुजनसमुचितमुचितं विज्ञेयं विधेयं चेति ।।३०४ ।। अथ नागरौचित्यं प्रस्तावयिष्यंस्तन्निरुक्तमेव दर्शयति -
जत्थ सयं निवसिजइ नयरे तत्थेव जे किर वसंति ।
ससमाणवित्तिणो ते नायरया नाम वुझंति ।।३०५।। गाथा-३०५ 1. तुला - "जत्थ सयं निवसिवइ, नयरे तत्थेव जे किर वसंति ।
ससमाणवित्तिणो ते नायरया नाम वुझंति ।।३५।।" स्वसमानवृत्तयो वणिग्वृत्तिजीविनः । "समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहिं । वसणूसवतुल्लगमागमेहिं निचं पि होअव्वं ।।३६।। कायव्वं कर्जे वि हु, न इक्कमिक्केण दंसणं पहुणो । कजो न मंतभेओ, पेसुन्नं परिहरेअव्वं ।।३७ ।। खमुवट्ठिए विवाए, तुलासमाणेहिं चेव होयव्वं । कारणसाविक्खेहिं, विहुणेअब्बो न नयमग्गो ।।३८।।" कारण त्ति स्वजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैर्नयमार्गो न विधूनयितव्यः, "बहिएहिं दुब्बलजणो, सुंककराईहिं नाभिभविअव्वो । थेवावराहदोसे वि, दंडभूमिं न नेअब्बो ।।३९।।"
शुल्ककराधिक्यनृपदण्डादिभिः पीड्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति, परं न सा त्यक्तव्या, संहतिरेव श्रेयस्करीतिभावः ।
"कारणिएहिं च सम, कायव्यो ता न असत्थसंबंधो । किं पुण पहुणा सद्धिं, अप्पहिअं अहिलसंतेहिं ।।४०।।"
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org