________________
३३४
हितोपदेशः । गाथा-३०२ - धर्माचार्यविषयम् औचित्यम् ।।
अमीषां मृद्गलखलादिवच्छलान्वेषी न भवति । तथा सुखावस्थायां दुःखावस्थायां वाऽमून् सुहृदिवानुवर्तते । तत्सुखेन सुखी तद्दुःखेन दुःखी भवतीत्यर्थः । ननु किमप्रमत्तेषु निर्ममत्वेषु च गुरुषु छिद्रान्वेषिसुहत्त्वादयो भावाः श्रावकाणां सम्भवन्ति? सत्यमीदृशा एव महात्मानो गुरवः । केवलं भिन्नभिन्नस्वभावानुस्यूतचेतसामुपासकानाम् तेष्वपि समुन्मीलन्त्येव स्वप्रकृतिस-मुचिता विस्रोतसिकाः । तथा च स्थानाङ्गसूत्रं - 'गोयमा ! चउबिहा सावया पन्नत्ता, तं जहामाया-पियरसमाणे भायसमाणे, मित्तसमाणे, सवक्किसमाणे य [अध्य. ४, उद्देशो-३, सूत्र-३२१] । तहाहि -
ति. जइकजाई न दिट्ठखलिओ वि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सड्डो ।।१।। सुत्थावत्थे न नमइ मुणीण मंदायरो विणयकम्मे । भायसमाणो साहूण परिभवे होइ सुसहाओ ।।२।। मित्तसमाणो माणा ईसिं रूसइ अपुच्छिओ कजे । मन्त्रइ जो अप्पाणं मुणीण सयणाउ अब्भहियं ।।३।। थद्धो छिद्दप्पेही पमायखलियाणि निश्चमुचरइ ।
सड्डो सउक्विकप्पो साहुजणं तिणसमं गणइ ।।४।। [ तस्मात् मातृपितृभ्रातृसमानैरेव गुरुजने श्रावकैर्भाव्यं, न सपत्नीसमानैरिति । तथा प्रत्यनीकानां प्रतिकूलचेष्टितानामनार्याणां प्रत्यवायं तज्जनितमुपप्लवं गुरुषु सर्वप्रयत्नेन वारयति ।उक्तं च -
साहूण चेइयाण य पडणीयं तह अवत्रवायं च । जिणपवयणस्स अहियं सव्वत्थामेण वारेइ ।।१।। त्ति [ ]।।३०१।। किञ्च - खलियंमि चोइओ गुरुजणेण मनइ तहत्ति सव्वं पि ।
चोएइ गुरुजणं पि हु पमायखलिएसु एगते ।।३०२।। स्खलिते क्वाप्यागसि गुरुजनेन प्रेरितः, 'आः किमर्थमिदमेवं त्वया विहितमिति' साक्षेप प्रोक्तः । सर्वं स्वापराधं कृतं प्रमादान्मयेदं न पुनः करिष्यामीति मन्यते । न पुनरभिनिवेशान्निजकृतिमेव पुरस्करोति । तथा गुरुजनमपि कदापि प्रमादस्खलितेषु भगवन् ! किमिदमुचितं
गाथा-३०१ 1. तुला - चउव्विहा समणोवासगा पण्णत्ता, तं जहा-अम्मापिइसमाणे, भाइसमाणे, मित्तसमाणे, सवत्तिसमाणे, अहवा चउव्विहा समणोवासगा पण्णत्ता, तं जहा - आयंससमाणे, पडागसमाणे, खाणुसमाणे, खरंट(खरकंटय)समाणे ।
___- स्था. अध्य. ४, उद्देशो-३, सूत्र-३२१
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org