________________
हितोपदेशः । गाथा-२९९, ३००, ३०१ - धर्माचार्यविषयम् औचित्यम् ।।
एवं पूर्वोक्तमादिशब्दादन्यदप्येवम्प्रायं स्वजनौचित्यमभ्यूह्यम् । अथानन्तरं धर्माचार्याणां धर्मोपदेशसम्यक्त्वादिदायकानां गुरूणां समुचितं किमपि लेशेन दर्शयामः । तदेवाह - इदं तावत् प्रथमकृत्यं तेषां यत् त्रिसन्ध्यं सायंप्रातर्मध्याह्नलक्षणासु तिसृष्वपि सन्ध्यासु प्रणिपात: पञ्चाङ्गनमनादिविधेयः । कथं - भक्तिबहुमानपूर्वम् । तत्र भक्तिरान्तरा प्रीतिः । बहुमानस्तु वाचिक: कायिकश्च । तत्पूर्वं तत्पुरस्सरं ।।२९८ ।। तथा -
तदंसियनीईए आवस्सयपमुहकिञ्चकरणं च ।
धम्मोवएससवणं तदंतिए सुद्धसद्धाए ।।२९९।। तद्दर्शितया नीत्या सामाचार्या आवश्यकप्रमुखाणां सामायिक-चतुर्विंशतिस्तव-वन्दनकप्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानप्रभृतीनां कृत्यानां करणं विधानं, न तु स्वाच्छन्द्यादगीतार्थोपदेशाद् वा । तथा तेषामेवान्तिके समीपे शुद्धश्रद्धया क्षणे क्षणे विशुद्ध्यमानाभिर्लेश्याभिर्भवविरागोपबृंहकानामर्हत्सिद्धान्तसम्बद्धानां धर्मोपदेशानां श्रवणमाकर्णनं करोति । 'सवणं सुतित्थे' इति वचनात् ।।२९९।। किञ्च -
आएसं बहुमन्नइ इमेसि मणसा वि कुणइ नावन्नं ।
रुंभइ अवनवायं थुइवायं पयडइ सया वि ।।३००।। निसर्गनिस्पृहाणामप्यमीषां किञ्चिद्धर्म्यप्रयोजनानुगतमुपनतमनवद्यमादेशमहो !धन्योऽहं यमेवं मामनुगृह्णन्ति गुरवोऽपीति बहुमन्यते सादरमुररीकरोति । तथा आस्तां तावद् वचसा वपुषा च, मनसाऽपि नामीषामवज्ञां न करोति, पुण्यप्रतिबन्धहेतुत्वात् तदवज्ञायाः । तथा भवाभिनन्दिभिरधार्मिकैर्विधीयमानमेतेषामवर्णवादमश्लाघारूपं सति सामर्थ्य नियमेन रुणद्धि । नोपेक्षते । 'न केवलंयो महतां विभाषते, शृणोति तस्मादपि यः स पापभाग्' इति श्रुतेः । स्तुतिवादंचार्थवादं तेषां सदैव समक्षमसमक्ष वा प्रकटयति अगण्यपुण्यानुबन्धित्वात् तदर्थवादस्येति ।।३०० ।। तथा -
न हवइ छिद्दप्पेही सुहि व्व अणुयत्तए सुहदुहेसु ।
पडणीयपञ्चवायं सव्वपयत्तेण वारेइ ।।३०१।। "कुणइ विणओवयारं, भत्तीए समयसमुचिअंसद । गाढं गुणाणुरायं, निम्मायं वहइ हिअयंमि ।।३३।।" सव्वं ति सम्मुखागमना-ऽभ्युत्थाना-ऽऽसनदान-संवाहनादि, शुद्धवस्त्र-पात्रा-ऽऽहारादिप्रदानादिकं च । "भावोवयारमेसि, देसंतरिओवि सुमरइ सयावि । इअ एवमाइ गुरुजणसमुचिअमुचिअं मुणेअव्वं ।।३४।।" भावोपकारः सम्यक्त्वदानादिः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org