________________
३३२ हितोपदेशः । गाथा - २९७, २९८ - स्वजनविषयम् औचित्यम् ।। धर्म्माचार्यविषयम् औचित्यम् ।।
तयभावे तग्गेहे न वइज्ज चइज्ज अत्थसम्बंधं । गुरुदेवधम्मकज्जेसु एगचित्तेहिं होयव्वं ।। २९७ ।।
तेषां स्वजनानामभावे तद्गेहे न व्रजेत् । केवलोषितयोषित्सु प्रोषितपुरुषेषु च तदालयेषु निर्निमित्तमेकाकी न प्रविशेदित्यर्थः तथा कृते ह्यैहिकाश्चौर्यपारदार्यापवादनृपनिग्रहादयः पारलौकिकाश्च धर्म्मभ्रंशदुर्गतिपातादयः स्फुटा एव दोषाः । तथा च श्रावकवक्तव्यतायां शीलवत्त्वस्य तृतीयमङ्गम्
'तइयं उस्सग्गेणं परघरगमणं विवज्जए एसो । सुत्तेगित्थीसहियं विसेसओ दोससब्भावा ।। १ ।। ' [
]
तथा तैः स्वजनैः सहार्थसम्बन्धं द्रव्यव्यवहारं त्यजेद् वर्जयेत् । स हि प्रथमारम्भे किञ्चित् प्रपञ्चयन्नपि प्रणयं, पर्यन्ते प्रथयत्येव प्रतिपन्थिताम् तथा चोक्तम् -
यदीच्छेद् विपुलां प्रीतिं त्रीणि तत्र न कारयेत् । वाग्वादमर्थसम्बन्धं परोक्षे दारदर्शनम् ।।१।। [
] इति ।
तथा स्वजनसम्बन्धे बान्धवादिभिरैहिकार्थसमर्थनायापि तावदेकचित्ततैवायतिहिता । गुरुदेवधर्म्मकार्येषु पुनः सविशेषमेकचित्तैरेव भाव्यम् । बह्वधीनत्वात् तेषां कार्याणाम् । तथैव च विधीयमानानि तान्युत्तरोत्तराण्यतः सम्भूय सर्वसम्मतेनैव सञ्चारणीयानि, यथा धर्म्मस्योपहसनीयता न स्यादिति । । २९७ ।।
अथ स्वजनौचित्यं निगमयन् धर्म्माचार्यौचित्यं च प्रस्तावयन्नाह 'एमाई सयणोचियमह धम्मायरियसमुचियं भणिमो । भत्तिबहुमाणपव्वं तेसिं तिसंझं पि पणिवाओ ।।२९८।।
गाथा - २९८ 1. तुला - "एमाई सयणोचिअमह धम्मायरिअसमुचिअं भणिमो । भत्तिबहुमाणपव्वं, तेसिं तिसंझं पि पणिवाओ ।। २८ ।। तद्वंसिअनीईए, आवस्सयपमुहकिचकरणं च । धम्मोवएससवणं तदंतिए सुद्धसद्धाए ।। २९ ।। बहुमन, इमेस मणसावि कुणइ नावनं । रुंभइ अवन्नवायं, थुइवायं पयडइ सयावि ।। ३० ।। न हवइ छिद्दप्पेही, सुहि व्व अणुअत्तए सुहदुहेसुं । पडिणीअपचवायं सव्वपयत्तेण वारेइ ।। ३१ ।। सुव्विति सुहृदिवानुवर्तते ।
"खलिअंमि चोइओ गुरुजणेण मन्नइ तहत्ति सव्वं पि । चोएइ गुरुजणं पि हु, पमायखलिएसु एगंते ।। ३२ ।। " चोइ त्ति भगवन् ! किमिदमुचितं सच्चरित्रवतां तत्रभवतां भवतामित्यादिना ।
Jain Education International 2010_02
-
For Private & Personal Use Only
www.jainelibrary.org