SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-२९५, २९६ - स्वजनविषयम् औचित्यम् ।। ३३१ पितृमातृपत्नीपक्षोद्भवाः पुंसां स्वजनाः । अतस्तेषामिदं समुचितम् यत्नानिजगृहवृद्धिकार्येषु पुत्रजन्मनामभद्राकरणोद्वाहादिषु सदैव भोजनवस्त्रताम्बूलादिभिः सगौरवमामन्त्र्य सम्मानयेत् । तथा दैवादुपनतासु हानिष्वपि तान् समीपवर्तिनः कुर्यात् ।।२९४ ।। तथा - सयमवि तेसिं वसणूसवेसु होयव्वमंतियंमि सया । खीणविहवाण रोगाउराण कायब्वमुद्धरणं ।।२९५।।। स्वयमात्मनापि स्वजनानां दैवराजादिजनितेषु व्यसनेषु सदैव समीपवर्तिभिर्भाव्यम् । 'राजद्वारे श्मशाने च यस्तिष्ठति स बान्धव' इति वचनात् । एवं तत्पुत्रजन्माद्युत्सवेष्वपि । तथा निर्व्यसनानां सदाचारवतामपि कदाचिद् दुरन्तान्तरायदोषात् प्रक्षीणविभवानां वेदनीयोदयादुदीर्णरोगातङ्कानां च तेषां स्वशक्त्यनुमानेनोद्धरणं विधेयम् । तदुद्धरणं च तत्त्वतः किलात्मोद्धरणमेव । यतोऽरघट्टघटीनामिव प्राणिनां प्रायो नैकान्तिकी रिक्तता पूर्णता च । ततः कदाचिद् दुर्दैवादात्मनोऽप्युपस्थितायां दुःरवस्थायामुपकृतचरेभ्यस्तेभ्य एवोद्धृतिः स्यादतः समयं प्राप्य स्वजनोद्धारविधिविधेय एवेति ।।२९५ ।। तथा - खाइज पिट्ठिमंसं न तेसि कुजा न सुक्ककलहं च ।। तदमित्तेहिं मित्तिं न करिज करिज मित्तेहिं ।।२९६ ।। तेषां स्वजनानां पृष्ठमांसादनं परोक्षे दोषोत्कीर्तनं न कुर्यात् पिशुनधर्मत्वात् परदोषोद्धोषणस्य । तथा तैः समं शुष्ककलहं हास्येनापि वाग्वादं न विदध्यात् । चिरप्ररूढप्रीतिलतालवित्ररूपत्वात् तस्य । तथा तेषाममित्रैरसुहृद्भिः सह मैत्री सुहद्धावं नादधीत । तथा कृते हि यद्यपि तदमित्रास्तेषु पूर्वप्रवृद्धमत्सरवशादपकुर्युस्तथापि तन्मनस्येवं स्याद् यदेभिरेतदित्थं कारितमिति । तस्मात्तन्मित्रैरेव मैत्रीमासूत्रयेत् ।।२९६।। किञ्च - पितृमातृपत्नीपक्षोद्भवाः पुंसां स्वजनाः, वृद्धिकार्याणि पुत्रजन्मादीनि । "सयमवि तेसिं वसणूसवेसु होअव्वमंतिअंमि सया । खीणविहवाण रोगाउराण कायब्वमुद्धरणं ।।२५।। खाइज़ पिट्ठिमंसं, न तेसि कुजा न सुक्ककलहं च । तदमित्तेहिं मित्तिं, न करिज्न करिज मित्तेहिं ।।२६।।" शुष्ककलहो हास्यादिना, "तयभावे तग्गेहे, न वइज चइज अत्थसंबंधं । गुरुदेवधम्मकजेसु, एगचित्तेहिं होअव्वं ।।२७।।" न वइज त्ति न व्रजेत् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy