SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकारस्य परिचयः ।। तस्मान्मुनीन्दुर्जिनवल्लभोऽथ तथा प्रथामाप निजैर्गुणौघैः । विपश्चितां संयमिनां च वर्गे धुरीणता तस्य यथाऽधुनापि ।।२।। तेषामन्वयमण्डनं समभवत् सञ्जीवनं दुःषमामूर्छालस्य मुनिव्रतस्य भवनं निःसीमपुण्यश्रियः । श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणैर्द्रष्टुं तादृशमाश्रयान्तरमहो दिक्षु क्रमात् क्रम्यते ।।३।। यतिपतिरिह देवभद्रो नामा जयति, तदीयपदावतंस एषः । विषमविषयरोगसन्निपाते दधति रसायनतां वांसि यस्य ।।४।। समस्तशास्त्राम्बुधिकुम्भजन्मा, कवित्ववक्तृत्वनिरुक्तिकोशः । शिष्यस्तदीयः प्रतिभासमुद्रः, श्रीमान् प्रभानन्दमुनीश्वरोऽस्ति ।।५।। सन्दर्भोऽयमतस्तेषामनुजेनाल्पमेधसा । तैरिवा[रेव]नुगृहीतेन परमाता ? [परमानन्दसूरिणा] ।।६।। गुणिनो गुणानुरक्ता गुरुभक्ताः साधवो व्यधुः सर्वे । साहाय्यमत्र शास्त्रे विशेषतो हर्षचन्द्रगणिः ।।७।। नवभिः श्लोकसहस्रैः पञ्चशतीसंयुतैः परिमितेयम् । नन्द्यादाचन्द्रार्क हितोपदेशस्य विवृतिरिह ।।८।। विक्रमनृपादतीतैश्चतुभिरधिकैः शतैस्रयोदशभिः । वर्षाणामनवचं शास्त्रमिदं सूत्रितं जयति ।।९।।श्रीः।। - भीलडीयाजीतीर्थे उपधानतपःप्रसङ्गे वि. सं. २०६०तमे वर्षे फाल्गुनप्रतिपद्यां तिथौ तपागच्छाधिराजपूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणां शिष्यावतंस-वर्धमानतपोनिधिपूज्यपादाचार्यवर्यश्रीमद्विजयगुणयशसूरीश्वराणां चरणचञ्चरीकः विजयकीर्तियशसूरिः Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy