________________
हितोपदेशः । गाथा - २९० - पुत्रविषयम् औचित्यम् ।।
पितुः पुत्रमात्मजं प्रति पुनरिदमुचितं, यदेनं बालभावे वृष्याहारस्वेच्छाविहारविविधक्रीडनकादिभिर्लालयति । तदा सङ्कोचितो ह्यसौ न कदाचिदङ्गोपचयमाकलयेत् । क्रमादुन्मीलितबुद्धिगुणं स्फुटीभूतशुश्रूषाद्यष्टविधमेधागुणं च स्वकुलोचितासु सकलास्वपि कलासु कुशलं निपुणमाधत्ते । स हि सकलः कलानिधिरिवेश्वरशिरोऽलङ्कारतां भजते, देवतेव च सर्वत्र पूज्यो भवति ।। २८९ ।। तथा
-
गुरुदेवधम्मसुहिसयणपरिचयं कारवेइ निचं पि । उत्तमलोएहि समं मित्तीभावं रयावेइ । । २९० ।।
३२९
गुरवो धर्माचार्याः । देवश्चेष्टदृष्टोऽर्हदादिः । धर्म्मस्तु दुर्गदुर्गतिनिपतत्प्राणिगणधारणक्षमो अहिंसादिः । सुहृदः प्रियहितोपदेशदेशनपटवो वयस्याः स्वजनाः पितृव्यमातुलादयः । एतैः समं नित्यमनवरतमेनं परिचयं कारयति । तथा कृते हि बाल्यात् प्रभृत्येवासौ - अमी मे गुरवः, अयं देवः, अयं मे कुल क्रमागतो धर्म्मः, अमी मे सुहृदः, एते स्वजनसम्बन्धिबान्धवा इति सद्वासवासित एव भवति । तथा कुलजातिवृत्तादिभिरुत्तमैर्लोकैः सम [म]स्य मैत्रीभावमारयति । यद्यपि दैवादुत्तममैत्री नार्थं सम्पादयेत् तथाप्यनर्थपरिहाराय जायत एवेति ।। २९० ।। तथागिन्हावेइ य पाणि समाणकुलजम्मरूवकन्नाणं ।
गिहभारम्मि निजुंजइ पहुत्तणं वियरइ कमेण ।। २९१।।
कुलेनान्वयेन जन्मना वयसा रूपेण चोत्तमसंस्थानस्थितसर्वावयवलक्षणेन समानानां गुणानां कन्यानामन्यगोत्रोत्पन्नानामेनं पाणि ग्राहयति अननुगुणयोगे हि परस्परमपरक्तचित्तयोर्दम्पत्योविडम्बनैव गृहवासः गृहिण्यां च विरागवान्पणाङ्गनादिप्रसङ्गवानपि स्यादतः समुचितयोरेव योगो योग्यः । तथा गृहभारे क्रयविक्रयायव्ययविनियोगलक्षणे चैनं योग्यमवगम्य नियुङ्क्ते । तथा सौ
गुरुदेवधम्मसुहिसयणपरिचयं कारवेइ नियंपि । उत्तमलोएहिं समं, मित्तीभावं रयावेइ ।। २० ।। गिलावेइ अ पाणि, समाणकुलजम्मरूवकन्त्राणं । गिहभारंमि निजुंजइ, पहुत्तणं विअरइ कमेणं ।। २१ ।। पचक्ख न पसंसइ, वसणोवहयाण कहइ दुरवत्थं । आयं वयमवसेसं च, सोहए सयमिमाहिंतो ।। २२ ।" 'प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः । कर्मान्ते दासभृत्याश्च पुत्रा नैव मृताः स्त्रियः ।।१।। '
इति वचनात्पुत्रप्रशंसा न युक्ता, अन्यथा निर्वाहादर्शनादिहेतुना चेत्कुर्यात् तदापि न प्रत्यक्षम्, गुणवृद्ध्यभावाभिमानादिदोषापत्तेः । द्यूतादिव्यसनिनां निर्द्धनत्वन्यत्कारतर्ज्जनताडनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्त्तन्ते । आयं व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः शोधयति, एवं स्वस्याप्रभुत्वं पुत्राणां स्वच्छन्दत्वमपास्तम्,
"दंसेइ नरिंदसभं, देसंतरभावपयडणं कुणइ । इसाइ अवगयं, उचिअं पिउणो मुणेअव्वं ।। २३ । । "
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org