________________
३२८ हितोपदेशः । गाथा-२८७, २८८, २८९ - प्रणयिनीविषयम् औचित्यम् ।। पुत्रविषयम् औचित्यम् ।।
क्वचिदपराधविशेषे निभृतमेनां तथा शिक्षयति यथा न पुनस्तत्र प्रवर्त्तते । तथा कुपितां कुतोऽपि प्रणयभङ्गादिनिमित्ताद् विरागमापन्नां पुनस्तन्मनोरथापूरणेनानुनयति । तथा धनहानिधनवृद्धिगृहमन्त्रव्यतिकरं च न कदाचिदस्याः प्रकटयति । व्यक्तीभूते हि धनहानिव्यतिकरे तुच्छप्रकृतितया सर्वत्र तद् वृत्तं व्यञ्जयन्ती चिरार्जितायाः सम्भावनातोऽपि पुमांसं भ्रंशयति । धनवृद्धिव्यतिकरे चाविष्कृते निरर्गलं व्यये प्रवर्त्तमाना क्रमात्तनुधनं गृहमेधिनं विधत्ते । स्फुटीकृतगृहमन्त्रप्रचारा च प्रकृतिकोमलहदयतया मन्त्रोष्माणं धारयितुमसमर्था स्वविश्रम्भथानेषु प्रकाश्याऽऽयतिचिन्तितानि कार्याणि विफलयति । कदाचित् राजद्विष्टमपि सङ्घटयतीत्येतत् त्रितयमपि स्त्रीगोचरं न कार्यम् ।।२८६।। तथा -
सुकुलुग्गयाहिं परिणयवयाहिं निच्छम्मधम्मनिरयाहिं ।
सयणरमणीहिं पीई पाउणइ समाणधम्माहिं ।।२८७ ।। एवंविधाभिर्बन्धुसधर्मिणीभिः सहैनां प्रीतिं प्रापयति । किम्भूताभिः? सुकुलोद्गताभिविमलकुलोत्पन्नाभिः । 'अकुलीनसंसर्गो हि कुलवनितानां मूलबीजमपवादपादपस्य' । तथा कुलजा अपि कदाचिदुदीर्णतारुण्यवशादसाम्प्रतकारिण्यः स्युरत आह-समानधर्माभिरेकगुरूपदिष्टविशिष्टशुद्धसामाचारीनिरताभिः । एवंरूपाभिस्ताभिः सख्यं ग्राहिता ह्यसौ प्रायः कुलधर्माचारौ न मुञ्चति ।।२८७।। तथा -
रोगाइसु नोविक्खइ सुसहाओ होइ धम्मकजेसु ।
एमाइ पणइणिगयं उचियं पाएण पुरिसस्स ।।२८८।। रोगादिषु रोगोन्मादपारवश्यादिषूपनतेषु नोपेक्षते । यथाशक्ति प्रतीकारादिषु प्रयतत एव । तथा धर्मकार्येषु तपश्चरणोद्यापनदानदेवपूजातीर्थयात्रादिषु सुसहायः सम्पद्यते । न पुनरन्तरायः । तत्पुण्यविभागस्य तस्याप्यंशहरत्वात् । एवमुक्तस्वरूपमन्यदप्येतत्प्रकारं पुरुषस्य प्राय: प्रणयिनीगतमुचितमवगन्तव्यमिति ।।२८८ ।। साम्प्रतं पुत्रोचितमभिधित्सुराह -
पुत्तं पइ पुण उचियं पिउणो लालेइ बालभावम्मि ।
उम्मीलियबुद्धिगुणं कलासु कुसलं कुणइ कमसो ।।२८९।। गाथा-२८९ 1. तुला - पुत्तं पइ पुण उचिअं, पिउणो लालेइ बालभावंमि ।
उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो ।।१९।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org