________________
३२६ हितोपदेशः । गाथा-२८२, २८३ - सहोदरविषयम् औचित्यम् ।। प्रणयिनीविषयम् औचित्यम् ।।
तथा -
तप्पणइणिपुत्ताइसु समदिट्ठी होइ दाणसम्माणे ।
सावक्कम्मि उ इत्तो सविसेसं कुणइ सव्वं पि ।।२८२।। तस्य कलत्रपुत्रप्रभृतिषु वस्त्राभरणादीनां दाने वाचिके च सम्माने समदृष्टिर्भवति । स्वकलवापत्यादिष्विव तेष्वपि दानसम्मानादि प्रवर्त्तयतीत्यर्थः । अथेदं सहोदरभ्रातृगोचरमौचित्यं, सापत्न्ये तु किं विधेयम्? इत्याह - सापत्न्येऽपरमात्रे भ्रातरि पुनरिदं समानोदर्यात् सर्वमपि सविशेषं विधत्ते । स्तोकेऽपि ह्यन्तरे व्यक्तीकृते तस्य वैचित्त्यं जनापवादश्च प्रादुर्भवतीति ।।२८२।। साम्प्रतं भ्रातृगतमौचित्यं निगमयन् प्रणयिनीगोचरं चोपक्षिपन्नाह --
इय भाइगयं उचियं पणइणिविसयं पि किंपि जंपेमो ।
सप्पणयवयणसम्माणणेण तं अभिमुहं कुणइ ।।२८३।। इति पूर्वोदितप्रकारेण भ्रातृगतमुचितमभिहितम् । इदानी प्रणयिनीगोचरमपि लेशेनौचित्यं भणामः । तदेवाह - तां प्रणयिनीमभिमुखीं प्रशस्यसौमनस्यवतीं करोति । कथं? सप्रणयवचगाथा-२८३ 1. तुला - “इअ भाइगयं उचिअं, पणइणिविसंयपि किंपि जंपेमो ।
सप्पणयवयणसम्माणणेण तं अभिमुहं कुणइ ।।१३।। सुस्सूसाइ पयट्टइ, वत्थाभरणाइ समुचिअं देइ । नाडयपिच्छणयाइसु, जणसंमद्देसु वारेइ ।।१४।। संभइ रयणिपयारं, कुसीलपासंडिसंगमवणेइ । गिहकजेसु निओअइ, न विओअइ अप्पणा सद्धिं ।।१५।।"
रजन्यां प्रचारं राजमार्गवेश्मगमनादिकं निरुणद्धि, धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशीलललितावृन्दमध्यगतामनुमन्यत एव, न विओअइ त्ति न वियोजयति, यतो दर्शनसाराणि प्राय: प्रेमाणि, यथोक्तम् -
"अवलोअणेण आलावणेण गुणकित्तणेण दाणेणं । छंदेण वट्टमाणस्स, निब्भरं जायए पिम्मं ।।१।। असणेण अइदंसणेणं दिटुं अणालवंतेण । माणेणऽपमाणेण य, पंचविहं झिज्जए पम्मं ।।२।। अवमाणं न पयंसइ, खलिए सिक्खेइ कुविअमणुणेइ । धणहाणिवुड्डिघरमतवइअरं पयडइ न तीसे ।।१६।।"
अपमानं निर्हेतुकं नास्यै प्रदर्शयति, स्खलिते किञ्चिदपराधे निभृतं शिक्षयति, कुपितां चानुनयति, अन्यथा सहसाकारितया कूपपाताद्यमप्यनर्थं कुर्यात्, पयडइत्ति धनहानिव्यतिकरं न प्रकटयति, प्रकटिते तु धनहानिव्यतिकरे तुच्छतया सर्वत्र तद्वृत्तान्तं व्यञ्जयति, धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गल व्यये प्रवर्त्तते, तत एव गृहे स्त्रियाः प्राधान्य न कार्य, 'सुकुलुग्गयाहिं परिणयवयाहिं निच्छम्मधम्मनिरयाहिं । सयणरमणीहिं पीइं, पाउणइ समाणधम्माहिं ।।१७।।' पाउणइ त्ति प्रापयति । "रोगाइसु नोविक्खइ, सुसहाओ होइ धम्मकजेसु । एमाइ पणइणिगयं, उचिअं पाएण पुरिसस्स ।।१८।।"
Jain Education International 2010_02.
For Private & Personal Use Only
www.jainelibrary.org