________________
३२४
हितोपदेशः । गाथा-२७८ - सहोदरविषयम् औचित्यम् ।।
नवरं केवलं 'से' तस्याः सवित्र्याः सविशेषं पितुरपि सकाशादप्रतिमां भावानुवृत्तिं चित्तानुकूलतां प्रकटयति । अत्र कारणमाह-सा जननी येन पराभवमपमानं स्त्रीस्वभावसुलभं न वहति । समुपनतेऽपि कुतोऽप्यवज्ञास्थाने स्वभावगम्भीरतया पुमांसस्तद्भावं न व्यञ्जयन्ति यथा प्रकृतिकोमलमनसः सीमन्तिन्यस्तस्मादनागतमेव तासु तदपास्यमिति ।।२७७ ।। एवं पित्रोरुचिताचरणमभिधाय सहोदरं प्रति तत्प्रवृत्ति प्रकटयन्नाह -
उचियं एयं तु सहोयरंमि जं नियइ अप्पसममेयं ।
जिटुं व कणिटुं पि हु बहुमन्नइ सव्वकज्जेसु ।।२७८ ।। सहोदरे समानौदर्ये भ्रातरि पुनरेतदुचितम् । यदेनमात्मसमानमात्मतुल्यं पश्यति । न पुनर्वणिकपुत्र-भृत्यादिवदवगणयति । तथा समग्रेष्वपि गृहस्वजनादिकार्येषु कनिष्ठमप्यमुं
"उपाध्यायाद्दशाचार्य, आचार्याणां शतं पिता । सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते ।।१।। [मनुस्मृतौ २-१४५] गाथा-२७८ 1. "उचिअंएअंपि सहोअरंमिजं निअइ अप्पसममेअं । जिटुं व कणिटुं पि हु, बहुमन्नइ सव्वकजेसुं ।।८॥" निअइ त्ति पश्यति जिटुं वत्ति ज्येष्ठो भ्राता पितृतुल्यस्तमिव, तथा - "दंसइ न पुढोभावं, सब्भावं कहइ पुच्छइ अ तस्स । ववहारंमि पयट्टइ, न निगृहइ थेवमवि दविणं ।।९।।" पयट्टइ त्ति व्यवहारे प्रवर्त्तते न त्वव्यवहारे, निगृहइत्ति द्रोहबुद्ध्या नापहृते, सङ्कटे निर्वाहार्थं तु धनं निधि करोत्येव ।
कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह - "अविणीअं अणुअत्तइ, मित्तेहिंतो रहो उवालभइ । सयणजणाओ सिक्खं, दावइ अनावएसेणं ।।१०।। हिअए ससिणेहो वि हु, पयडइ कुविअं व तस्स अप्पाणं । पडिवनविणयमग्गं, आलवइ अछम्मपिम्मपरो ।।११।।" अछम्मि त्ति निश्चयप्रेमवान्, एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति जानन् सन्नुदास्त एव, "तप्पणइणिपुत्ताइसुं, समदिट्ठी होइ दाणसम्माणे । सावक्कंमि उ इत्तो, सविसेसं कुणइ सव्वं पि ।।१२।।"
समदिट्ठि त्ति स्वपल्यपत्यादिष्विव समदृष्टिः, सावक्कंमित्ति सापत्नेऽपरमातृके भ्रातरि, तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्यं जनापवादश्च स्यात् । एवं पितृ-मातृ-भ्रातृतुल्येष्वपि यथार्हमौचित्यं 'चिन्त्यम् । यतः - "जनकश्चोपकर्ता च, यस्तु विद्याप्रयच्छकः । अन्नदः प्राणदश्चैव, पञ्चैते पितरः स्मृताः ।।१।। राज्ञः पत्नी गुरोः पत्नी, पत्नीमाता तथैव च । स्वमाता चोपमाता च, पञ्चैता मातरः स्मृताः ।।२।। सहोदरः सहाध्यायी, मित्रं वा रोगपालकः । मार्गे वाक्यसखा यस्तु, पञ्चैते भ्रातरः स्मृताः ।।३।। भ्रातृभिश्च मिथो धर्मकार्यविषये स्मारणादि सम्यक्कार्य, यतः - "भवगिहमॉमि पमायजलणजलिअंमि मोहनिदाए । उट्ठवइ जो सुअंतं, सो तस्स जणो परमबंधु ।।१।।" भ्रातृवन्मित्रेऽप्येवमनुसतव्यम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org