________________
हितोपदेशः । गाथा-२७६, २७७ - पितृविषयम् औचित्यम् ।। जननीगतविशेषकृत्यम् ।।
३२३
च निषिद्धः सन्नुपक्रान्तेऽपि कार्ये तथैवावतिष्ठते । न पुनरुल्लुण्ठतया करोत्येव । तथा स्खलितेऽपराधे खरं कर्कशमपि भणितो विनीततामाशैशवादभ्यस्तां न विलङ्घयति केवलं तात ! प्रमादादिदमाचरितं मया, न पुनरेवं विधास्यामीति सानुनयममुं प्रसादयत्येव ।।२७५ ।। तथा -
सविसेसं परिपूरइ धम्माणुगए मणोरहे तस्स ।
एमाइ उचियकरणं पिउणो जणणीइ वि तहेव ।।२७६।। तस्य जनयितुरितरमपि मनोरथसार्थं न तावदफलतां नयति । धानुगतांस्तु देवपूजासद्गुरुपर्युपास्ति-धर्मश्रवण-विरतिप्रतिपत्ति-आवश्यकप्रवृत्ति-सप्तक्षेत्रीवित्तव्यय-तीर्थयात्रादीनानाथोद्धरणादीन मनोरथान् सविशेषं सादरं परिपूरयति । कर्त्तव्यमेव चैतत् सदपत्यानामिहलोकगुरुषु पितृषु । न चाहद्धर्मसंयोजनमन्तरेणात्यन्तदुःप्रतिकारेषु तेष्वन्योऽपि उपकृतिप्रकारः । तथा च स्थानाङ्गसूत्रम् -
तिन्हं दुष्पडिआरं समणाउसो ! तं जहा - 'अम्मापिऊणं, भट्टस्स, धम्मायरियस्स । संपाए विय णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अन्भंगित्ता, सुरहिणा गंधवट्टएणं उवट्टित्ता, तिहि उदएहिं मजावित्ता, मणुन्नं थालीपागपमुहं अट्ठारसवंजणाउलं भोयणं भोआवित्ता जावजीवं पिट्ठिवडिंसयाए परिवहिज्जा । तेणामेव तस्स दुप्पडियरियं भवइ । अहे णं से केवलिपत्रत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता भवइ, तेणामेव तस्स सुपडियरियं भवइ त्ति ।। [ठाणांगसूत्र ३ अ./सू. १४३]
भर्तृधर्माचार्यालापको त्वत्राप्रस्तुतत्वान्न लिखितौ । तेनेदमुक्तं धानुगतान् मनोरथान् सविशेष पितुः पुत्रः पूरयतीति । तदेवं पूर्वोक्तमादिशब्दात् शास्त्रान्तरप्रणीतं शिष्टजनाचीर्णं वान्यदपि पितुरुचितकरणं विज्ञेयम् । यथैव च जनकस्य तनुशुश्रूषादिकं धर्मानुगतमनोरथपरिपूरणपर्यन्तमुचितमभिहितमेवमौचित्येन जनन्या अपि तथैव सर्वमवगन्तव्यम् ।।२७६।। यञ्च विशेषकृत्यं तदुपदर्शयन्नाह -
नवरं से सविसेसं पयडइ भावाणुवित्तिमप्पडिमं ।
इत्थीसहावसुलहं पराभवं वहइ न हु जेण ।।२७७।। गाथा-२७६ 1. अम्मापिउणो, भट्टिस्स, धम्मायरियस्स इति पाठो स्थानाङ्गसूत्रमुद्रिते जैनागमग्रंथमालायाम् ।। गाथा-२७७ 1. तुला - अथ मातृविषयौचित्ये विशेषमाह - "नवरं से सविसेसं, पयडइ भावाणुवित्तिमप्पडिमं । इत्थीसहावसुलह, पराभवं वहइ नहु जेणं ।।७।।" सविसेसं ति जनकान्मातुः पूज्यत्वाद्, अपि यन्मनुः -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org