________________
३२२
हितोपदेशः । गाथा-२७४, २७५ - पितृविषयम् औचित्यम् ।।
-
भोजनशयनीयवसनाङ्गरागादिसम्पादनरूपां च किङ्कर इव स्वयं सुजातस्तनयः करोति । कथं? विनयेनान्तरप्रीतिप्रकर्षण, न तु परोपरोधावज्ञादिभिः कर्मकरादिभ्यो वा कारयतीति ।
[उक्तं] पितुस्तनुगोचरमौचित्यं, वाग्विषयमाह-'से' तस्य पितुर्वचनमादेशमपि वदनादपतितमुच्चार्यमाणमेव आदेशः प्रमाणम्, ‘एष करोमि' इति सादरं प्रतीच्छति । न पुनरनाकर्णितकशिरोधूननकालक्षेपाऽर्द्धविधानादिभिरवजानाति ।।२७३।। मनोविषयमाह -
चित्तं पि हु अणुयत्तइ सव्वपयत्तेण सव्वकजेसु ।
उवजीवइ बुद्धिगुणे नियसब्भावं पयासेइ ।।२७४ ।। तस्य पितुर्न केवलं वाग्वपुषी, चित्तं मनोऽप्यनुवर्त्तयत्यनुकूलयति । कथं? सर्वप्रयत्नेन सर्वादरेण । केषु? सर्वेषु कार्येषु समग्रकरणीयेषु, किमुक्तं भवति? स्वबुद्धिविचारितमप्यवश्यविधेयमप्यण्वपि कार्यं यदेवास्य मनोऽनुकूलं तदेव समारभत इत्यर्थः । उक्तं च -
इहलोयगुरू पियरो ताणं सुस्सूसणं कुणइ । आहारवत्थसयणाइएसु उजमइ इच्छियतरेसु ।
भावे य ताणमणुकूल - मणुसरे दाणमाइसु ।। त्ति ।। [ ] तथा - 'उवजीवइ बुद्धिगुणे'।
तस्मात् पितुर्बुद्धिगुणान् शुश्रूषादीन् सकललौकिकलोकोत्तरव्यवहारगोचरांश्चोपजीवत्यभ्यसति । बहुदृश्वानो हि पितृप्रभृतयः सम्यगाराधिता: प्रकाशयन्त्येव कार्यरहस्यानि । तथा - 'नियसब्भावं पयासेइ' ।।
तस्य निजं सद्भावं चित्ताभिप्रायं प्रकाशयति । तथा कृते हि यथौचित्येन कृत्येष्वेष विधिनिषेधावाचरति ।।२७४ ।। तथा -
आपुच्छिउं पयट्टइ करणिज्जेसुं निसेहिओ ठाइ ।।
खलिए खरं पि भणिओ विणीययं न हु विलंघेइ ।।२७५।। गृहधर्मस्वजनपौरादिकृत्येषु पितरमापृच्छयैव प्रवर्त्तते । तस्यैव गुणागुणविभागविज्ञत्वात् । तेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org