________________
हितोपदेशः । गाथा-२७३ - पितृविषयम् औचित्यम् ।।
३२१
तचौचित्याचरणं पुरुषार्थसार्थसमर्थनपटुना पुरुषेण 'पितृ-'मातृ-'सहोदर- प्रणयिनी"अपत्य-स्वजन-"गुरुजन-'नागर- 'परतीर्थिकलक्षणेषु नवसु स्थानेषु वक्ष्यमाणप्रकारेण कर्तव्यमिति ।।२७२।। तत्रादौ पितृविषयमौचित्यमुपदर्शयन्नाह -
पिउणो तणुसुस्सूसं विणएणं किंकरु व्व कुणइ सयं ।
वयणं पि से पडिच्छइ वयणाओ अपडियं चेव ।।२७३।। त्रिविधं हि किलौचित्यम् । कायविषयं वाग्विषयं मनोविषयं च । तत्रादौ कायिकमाह - पितुर्जनकस्य तनुशुश्रूषां चरणक्षालनाङ्गसंवाहनोत्थापननिवेशनादिरूपां देशकालसात्म्यौचित्येन तं पुण पिइ'-माइ-सहोअरेसु-पणइणि-अव-सयणेसुं । गुरुजण-नायर -परितित्थिएसु'-पुरिसेण कायव्वं ।।२।।' तत्र पितृविषयं कायवाग्मनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाह -
'पिउणो तणुसुस्सूसं, विणएणं किंकरु व्व कुणइ सयं । वयणं पि से पडिच्छइ, वयणाओ अपडिअंचेव ।।३।।' तनुशुश्रूषां चरणक्षालन-संवाहनोत्थापन-निवेशनादिरूपाम्, देश-काल-सात्म्यौचित्येन भोजन-शयनीयवसनाऽङ्गरागादिसम्पादनरूपां च, विनयेन न तु परोपरोधावज्ञादिभिः, स्वयं करोति न तु 'भृत्यादिभ्यः(भिः) कारयति । यतः - "गुरोः पुरो निषण्णस्य, या शोभा जायते सुनोः । उच्चैः सिंहासनस्थस्य, शतांशेनापि सा कुतः? ।।१।।"
अपडिअं ति वदनादपतितमुच्चार्यमाणमेवादेशः प्रमाणमेष करोमीति सादरं प्रतीच्छति, न पुनरनाकर्णितशिरोधूननकालक्षेपार्द्धविधानादिभिरवजानाति ।
"चित्तं पि हु अणुअत्तइ, सव्वपयत्तेण सव्वकजेसुं । उवजीवइ बुद्धिगुणे, निअसब्भावं पयासेइ ।।४।।"
स्वबुद्धिविचारितमवश्यविधेयमपि कार्यं तदेवारभते यत्पितुर्मनोऽनुकूलमितिभावः । बुद्धिगुणान् शुश्रूषादीन् सकलव्यवहारगोचरांश्चोपजीवति अभ्यस्यति, बहुदृश्वानो पितृप्रभृतयः सम्यगाराधिताः प्रकाशयन्त्येव कार्यरहस्यानि, निजसद्भावं चित्ताभिप्रायं प्रकाशयति -
"आपुच्छिउं पयट्टइ, करणिज्जेसु निसेहिओ ठाइ । खलिए खरंपि भणिओ, विणीअयं नहु विलघेइ ।।५।। सविसेसं परिपूरइ, धम्माणुगए मणोरहे तस्स । एमाइ उचिअकरणं, पिउणो जणणीइ वि तहेव ।।६।।"
तस्य पितुरितरानपि मनोरथान् पूरयति, श्रेणिकचिलणादेरभयकुमारवत् । धर्मानुगतान् सुदेवपूजा-गुरुपर्युपास्तिधर्मश्रवण-विरतिप्रतिपत्त्यावश्यकप्रवृत्ति-सप्तक्षेत्रीवित्तव्यय-तीर्थयात्रा-दीनानाथोद्धरणादीन्मनोरथान् सविशेष बहादरेणेत्यर्थः । कर्त्तव्यमेव चैतत् सदपत्यानामिह लोकगुरुषु पितृषु । न चार्हद्धर्मसंयोजनमन्तरेणात्यन्तं दुष्प्रतिकारेषु तेषु अन्योऽस्ति प्रत्युपकारप्रकारः, तथा च स्थानाङ्गसूत्रम् - ___ “तिण्हं दुप्पडिआरं समाणाउसो ! तं जहा-अम्मापिउणो १, भट्टिस्स २, धम्मायरिअस्स ३ ।" (३-१-१३५) इत्यादिः समग्रोऽप्यालापको वाच्यः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org