________________
३२० हितोपदेशः । गाथा-२७०-७१-७२ - उत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे सप्तमं उचिताचरणं प्रतिद्वारम् ।।
इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वतिनि उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे षष्ठं परोपकारप्रतिद्वारं समाप्तमिति भद्रम् ।।२६९ ।।श्रीः।।। एवं परोपकारद्वारं व्याख्याय साम्प्रतं तस्य निगमनायोचिताचरणद्वारस्य चोपक्षेपायाह -
उवयारपरो वि नरो जो न मुणइ सम्ममुचियमायरिउं ।
सलहिजइ सो न जणे ता मुणिऊणं कुणह उचियं ।।२७०।। नर: पूर्वोदिते परोपकारे कृतप्रवृत्तिरपि यः सम्यक् प्रोच्यमानस्वरूपमुचितमाचरितुं न जानाति । स जने लोके न श्लाघ्यते । तस्मात् परिज्ञाय तत्प्रकारमुचितं कुरुतेति ।।२७० ।। अथ किं स्यादुचिताचरणेनेति चेत्, तदाह -
सामन्ने मणुयत्ते जं केई पाउणंति इह कित्तिं ।
तं मुणह निब्बियप्पं उचियाचरणस्स माहप्पं ।।२७१।। इहास्मिन् जगति यत् केचन नरोत्तमाः सामान्ये सर्वसाधारणे मनुष्यत्वे कीत्तिं प्राप्नुवन्ति प्रसिद्धिमध्यासते । तनिर्विकल्पं निःसंशयमुचिताचरणस्य माहात्म्यं जानीत । किमुक्तं भवति ? किल दानादयो हि गुणाः पुंसां प्रसिद्धिहेतवस्ते चौचित्यसहचरिता एव तत्त्वतो गुणत्वं भजन्ते । यदाह -
औचित्यमेकमेकत्र गुणानां राशिरकतः ।
विषायते गुणग्राम औचित्यपरिवर्जितः ।।१।। [ तस्मादौचित्याचरणमेव गुणवतामपि प्रसिद्धिनिबन्धनमिति ।।२७१ ।। साम्प्रतं येषूचिताचरणमाधेयं तान् नामतोऽभिदधाति -
तं पुण पिइमाइसहोयरेसु पणइणिअवञ्चसयणेसु ।
गुरुजणनायरपरतित्थिएसु पुरिसेण कायव्वं ।।२७२।। गाथा-२७२ 1. तुला - नवधा औचित्यस्य स्वरूपम् धर्मसङ्ग्रहे - अधि. २ मध्ये गा. ६३ वृत्तौ हितोपदेशमालागाथाभिः दर्शितम् तञ्चेदम् । तथोचितस्योचितकार्यस्याचरणं करणम् उचिताचरणम्, तञ्च पित्रादिविषयं नवविधम्, इहापि स्नेहवृद्धिकीर्त्यादिहेतुर्हितोपदेशमालागाथाभिः प्रदर्श्यते - _ 'सामने मणुअत्ते, जं केई पाउणंति इह कित्तिं । तं मुणह निविअप्पं, उचिआचरणस्स माहप्पं ।।१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org