________________
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
३१९
यत्प्रसादान् मयोत्तीर्णाः का: का न विपदापगाः । विलुप्ते वचने तेषां मत्तः कः स्यात् परोऽधमः ।।२६२।। को हि नाम विदन्नेवं वपुः सत्वरगत्वरम् । तस्यार्थे पापमाधाय त्यजेद् धर्मं सनातनम् ।।२६३।। व्रतप्राणेषु जीवत्सु जीवन्त्येव मृता अपि । मृतेषु तेषु जीवास्तु जीवन्तोऽपि मृता इव ।।२६४।। उत्तमेऽभूत् कुले जन्म धर्मः प्राप्तो जिनोदित: । पालितश्च यथाशक्ति मृतिकृतिहरा न मे ।।२६५ ।। भणनीयस्तदत्रार्थे मित्र ! नाहमतः परम् । यतस्व मे परत्रार्थे सत्यमेवासि चेत् सुहृत् ।।२६६।। निश्चलं निश्चयं तस्य ज्ञात्वा क्षत्रकुलोचितम् । जिनदासोऽपि राजानमवदत् प्रीतिकातरम् ।।२६७।। देव ! मुञ्चति मर्यादां जलधिश्चलति क्षितिः । पुष्पचूलस्तु न त्वेष लुम्पति व्रतमात्मनः ।।२६८।। निपतच्छत्रसङ्घाते भीषणेऽस्य यथा रणे । मरणेऽपि तथा नैव भयं समयसङ्गते ।।२६९।। श्लथीकृत्य ममत्वं तत् परलोकोपयोगिषु । अस्य कृत्येषु देवेन यतनीयमत: परम् ।।२७०।। कथञ्चित् प्रतिपनेऽथ तस्मिन्नर्थे महीभुजा । उचितं तस्य कालस्य पुष्पचूल: प्रचक्रमे ।।२७१।। जिनालयेषु सर्वेषु पूजोत्सवमचीकरत् । सङ्घ च पूजयामास चारकस्थानमोचयत् ।।२७२।। दानं प्रवर्त्तयामास दीनादिष्वनिवारितम् । अभयं घोषयाञ्चक्रे जलस्थलखचारिणाम् ।।२७३।। पापस्थानानि सर्वाणि व्युत्सृज्य त्रिविधेन च । क्षमयित्वा च सत्त्वौघं प्रपेदेऽनशनं ततः ।।२७४ ।। सुहृदा जिनदासेन दीयमानानुशासनः । मुक्ताशंसानिदानोऽथ ममत्वपरिवर्जितः ।।२७५ ।। स्मृतपञ्चनमस्कारश्चतुःशरणमाश्रितः । धर्मध्यानेन मृत्वासावच्युते त्रिदशोऽभवत् ।।२७६ ।। युग्मम् ।। गच्छता जिनदासेन दृष्टे देव्यौ तथैव ते । पृष्टे च कारणं भूयः कथयामासतुर्यथा ।।२७७।। भद्र ! भाग्यविपर्यासादावयोर्मन्दभाग्ययोः । परिणामविशुद्ध्याऽगात् स कल्पे क्वचिदुत्तरे ।।२७८।। अहो ! जैनेन्द्रधर्मस्य प्रभावः कोऽप्यभङ्गरः । इति ध्यायनभूद् धर्मे जिनदासोऽपि सुस्थितः ।।२७९।। कृत्वैवं द्रव्यभावोपकृतिमनुपमा पुष्पचूलो मुनीन्द्र-श्चान्योन्यं पुण्यपण्यप्रचयपरिचितौ प्रापतुः स्वेष्टसिद्धिम् । मत्वैतत् सर्वसत्त्वव्यसननिरसनैर्दर्शितं तीर्थनाथै-रानन्दाद्वैतबीजं भजत कृतधियो द्रव्यभावोपकारम् ।।२८०।। यतः परोपकार्येव बिभर्त्यनिन्द्यताम्, परोपकारी समुपैति वन्द्यताम् । परोपकारात् प्रभवन्ति भूतयः, परोपकारात् प्रसरन्ति कीर्त्तयः ।।२८१।। किञ्च - कूटाभिमानेन मुधावमृष्टाः, स्मयात् द्वयं हन्त वहन्तु धृष्टाः । परोपकाराय य एव सृष्टाः, कवीन्द्रवक्त्रेषु त एव दृष्टाः ।।२८२।।
3. प्रीतिकारकम् पाठान्तरः ।। 4. 'स्मयाद्वयं' इति पाठो समीचीनो भाति । - सम्पा० ।।
Jain Education International 2010 02
For Private & Personal Use Only
www.jainelibrary.org