________________
३१८
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
पुष्पचूलेन दुर्वारवीरव्रतभृता तदा । कामरूपपतिनिन्ये निधनं दुर्द्धरः स्वयम् ।।२३५ ।। तेनापि स प्रवीरेण प्रहारविधुरीकृतः । आददे तस्य सप्ताङ्गां श्रियं प्रगुणितामिव ।।२३६ ।। भिषग्भिः प्रत्यलैराप्तैर्ऋणकर्मास्य निर्ममे । क्रमात् प्राप्ता च संरोहं बहिरस्य व्रणावली ।।२३७।। सम्प्राप्ते तत्र चावन्त्यां विचारधवलो नृपः । अमन्दानन्दसन्दोहं महोत्सवमचीकरत् ।।२३८।। उपनिन्ये श्रियं शत्रोस्तस्मै सर्वां स निस्पृहः । लुभ्यन्ति कीर्तिषु प्रायो न भूतिषु महाशयाः ।।२३९।। अकालजलदेऽन्येधुरूर्जितं गर्जितोन्मुखे । एधोरुरिव वर्षासु विदद्रेऽस्य व्रणावली ।।२४०।। प्रयुक्ताः क्षितिपेनाप्तास्तस्य वैद्या विशारदाः । चिकित्सां बहिरन्तश्च सावधाना वितेनिरे ।।२४१।। तथाऽप्यस्य व्रणद्वाराण्यभिद्यन्त पुनः पुनः । न्यस्तानीव रहस्यानि हृदये क्षुद्रयोषिताम् ।।२४२।। तद्वशाद् वपुरेतस्य कार्यमापद् दिने दिने । वलक्षेतरपक्षान्तः सितांशोरिव मण्डलम् ।।२४३।। विषसाद परं भूभृदुपालब्ध चिकित्सकान् । विमुक्तराज्यकार्योस्थात् तस्यावासे दिवानिशम् ।।२४४ ।। अथायुर्वेदिनो दीनमुखाः क्षमापं व्यजिज्ञपन् । देवास्माभिः प्रयुक्तोऽस्मिन्निखिलोऽप्यौषधव्रजः ।।२४५।। उपलब्धो विशेषस्तु नाद्ययावन्मनागपि । काकमांसमिहास्त्येकममोघास्त्रमतः परम् ।।२४६।। ततः सप्रणयं भूपः पुष्पचूलं समादिशत् । वत्स ! धर्मार्थकामानां शरीरं मूलकारणम् ।।२४७।। अतोऽनुचितमप्येतद् भज देहार्थमौषधम् । भूयः श्रेयांसि भूयांसि सत्येतस्मिंस्तवानघ ।।२४८।। मुनयोऽपि निषेवन्ते देहयात्रार्थमौषधम् । प्रायश्चित्तेन चीर्णेन मुच्यन्ते च तदंहसः ।।२४९।। कुमारोऽप्यवदद् देव ! यथा मान्यं वचस्तव । इहलोकगुरोरेवं परलोकगुरोर्न किम् ।।२५०।। विशेषोऽप्यस्ति यद् यूयं प्रत्यक्षा रोषिता अपि । पुनस्तोषयितुं शक्यास्ते तु दूरस्थिताः कथम् ।।२५१।। अनुल्लध्यमतस्तेषां वचनं नियमानुगम् । अप्रसादमिहार्थे तत्र तातः कर्तुमर्हति ।।२५२॥ नृपोऽप्यचिन्तयद् वाक्याजिनदासस्य चेदसौ । कथञ्चित् प्रतिपद्येत भाणयामि ततोऽप्यमुम् ।।२५३।। आनाययदथ ग्रामानृपस्तं निजपुरुषैः । आगच्छन् स वनेऽपश्यद् प्ररुदद् देवतायुगाम् ।।२५४।। रुदिते कारणं ताभ्यां पृष्टाभ्यां तस्य शंसितम् । आवां सौधर्मकल्पस्य देव्यौ प्रच्युतभर्तृके ।।२५५।। न खण्डयति भूपालसूनुश्चेनियमं निजम् । भवद्वचनतस्तत्स्यादावयोः प्राणवल्लभः ।।२५६।। अस्मिन्नर्थे प्रयत्नं तद् विदध्याः करुणानिधे ! । तथेति प्रतिपद्याथ सोऽपि प्राप तदन्तिकम् ।।२५७।। दृष्ट्वाऽथ जिनदासं तं मुमुदे नृपनन्दनः । तथाविधे हि वैधुर्ये सुहृद्दर्शनमौषधम् ।।२५८।। नृपोपरोधतस्तेन विविक्ते कर्तुमौषधम् । भणितः पुष्पचूलोऽथ सोपालम्भमदोऽवदत् ।।२५९।। ब्रवीषि किमिदं मित्र ! त्वं प्राकृतजनोचितम् । प्राणात्ययेऽपि मुञ्चामि नियमं नाहमात्मनः ।।२६०।। सुलभा एव यत् प्राणा: प्राणभाजां भवे भवे । दुर्लभस्तु गुरूद्दिष्टविशिष्टनियमक्रमः ।।२६१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org