________________
३१६
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
भयेन भूपतेनूनं गृह्णास्यनुनयं न मे । चौरत्वेऽपि समानं तद् विरुद्धायां मयीह ते ।।१८१।। असद्ग्रहमतो मुक्त्वा भुक्त्वा मां भज निर्वृतिम् । दर्शयिष्येऽन्यथा सद्यः स्वापमानतरोः फलम् ।।१८२।। स्मित्वोचे पुष्पचूलोऽथ हन्त केयं विभीषिका । न त्वत्तो न च भूभर्तुर्नान्तकादपि मे भयम् ।।१८३।। केवलं प्रतिपन्नस्य गुरुमूले मया स्वयम् । अभिग्रहस्य भनेन दुर्गतेरेव मे भयम् ।।१८४।। प्रागेव प्रतिषिद्धासि मातरं भणता मया । अतस्त्वया न वक्तव्यमसङ्गतमतः परम् ।।१८५।। इति सत्त्ववता तेन सर्वथाऽसौ निराकृता । चौरश्चौरोऽयमित्युचैश्चक्रे कोलाहलं कुधीः ।।१८६।। अयं चान्योन्यसंवादः सकलोऽपि तयोस्तदा । प्रियाप्रसादनप्राप्तेनाश्रावि जगतीभुजा ।।१८७।। अपसृत्य ततः किञ्चिद् यामिकानन्वशानृपः । विना प्रहारमेनं रे ! चौरं गृह्णीत यत्नतः ।।१८८।। डुढौकिरे भटास्तेऽथ कृतान्तसुभटा इव । ऊचुश्च मुञ्च भोः शस्त्रम् अभयं ते पुरो भव ।।१८९।। प्राणैः समं विमुञ्चामि शस्त्रं न पुनरन्यथा । इत्यालपन्तमावृत्य तस्थुस्ते सर्वतोऽपि तम् ।।१९०।। अत्रान्तरे जगत्कर्मसाक्षी सत्कर्मसाक्षिताम् । पुष्पचूलस्य विश्वेऽपि साक्षात्कर्तुमिवोद्ययौ ।।१९१।। विधाय नित्यकृत्यानि द्रष्टुमुत्कोऽथ भूपतिः । सहैव तेन वृन्देन पुष्पचूलमनाययत् ।।१९२।। नृपभ्रूसंज्ञया द्वास्थेनाथ निर्माक्षिके कृते । एनं सर्वाङ्गमालोक्य दध्याविति धराधिपः ।।१९३।। अहो रूपमहो देहाभोगः कोऽप्यस्य दुर्द्धरः । अहो सल्लक्षणान्यस्य स्थाने तवृत्तमस्य तत् ।।१९४ ।। विचिन्त्येति कृताकारगुप्तिर्भूमिपतिस्ततः । कोऽसि भद्र ! भवानेवमूचे सोऽपि व्यजिज्ञपत् ।।१९५।। कथितः कर्मणैवाहं देव ! किं जल्पितैः परैः । करस्थे कङ्कणे कस्य दर्पणाय स्पृहा ननु ।।१९६।। बभाषे भूपतिः कर्म नाकारसदृशं तव । केयं मनोरमा मूर्तिः क्व वृत्तिः परिपन्थिनाम् ।।१९७।। अलमेतेन वा रात्रिवृत्तं तावनिवेदय । इति भूपेन साकूतमुक्ते सोऽपि व्यचिन्तयत् ।।१९८।। विदितं भूपतेः सर्वं नियतं रात्रिचेष्टितम् । प्रवृत्तिः सुकुमारेयं तस्करे क्वान्यथा मयि ।।१९९।। भविष्यति वराकी सा नृपकोपानलाहुतिः । को वा त्रातुमलं जीवान् स्वकर्मगलहस्तितान् ।।२००।। अनुग्रहः कृतो न स्याद् यदि मे तैर्महात्मभिः । गतिरेषैव किं न स्यादहो ! धर्मः परं जयी ।।२०१।। इत्यादि विमृशन्नेष तूष्णीं यावदवास्थित । तावत् ज्वलितकोपानिरारक्षमादिशनृपः ।।२०२।। मत्प्रियाऽग्रेसरां रे ! रे ! वध्यनेपथ्यवाहिनीम् । भ्रामयित्वा पुरे तूर्णं निगृहाण दुरात्मिकाम् ।।२०३।। पुष्पचूलस्तदाकर्ण्य भूपतेः पदपद्मयोः । मूर्धानं प्रणिधायाशु व्यजिज्ञपदिदं तदा ।।२०४।। देव ! देवस्य चित्ते चेत् क्वचिद् गुणकोणोऽस्ति मे । प्रमाणीकुरु तनाथ ! प्रथमप्रार्थनां मम ।।२०५।। मातेति सा मया प्रोक्ता ततः प्राणप्रदानतः । अनुगृह्णातु देवस्तां मां च प्रणयपूरणात् ।।२०६।। जगाद मेदिनीन्द्रोऽथ हर्षगद्गदया गिरा । वत्स ! धन्यस्य कस्यापि कुले त्वं समवातरः ।।२०७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org