________________
हितोपदेशः । गाथा - २६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
सकामा साऽभ्यधाद् भ्रान्तिश्चौर रे ! तव का ननु । स्पृष्टमात्रेण मे येनापहृतं हृदयं बलात् । । १५४ ।। अहो ! भाग्यानि ते यस्य सर्पार्थं क्षिपतः करम् । बिलान्तः स्वर्णमाणिक्यकङ्कणः पतितः करे । । १५५ ।। तमां सुभग ! भाग्यैकलभ्यामभ्यागतां स्वयम् । भजनीयामुपेत्यापि भज सार्द्धं समृद्धिभिः । । १५६ ।। इतरोऽप्यब्रवीत् काऽसि शुभे ! त्वं कस्य वा प्रिया । अज्ञातकुलशीलं मां किमर्थं भजसेऽथ वा । । १५७ ।। साऽप्युवाच सकोपेव त्वं मामपि न वेत्सि किम् । विचारधवलक्षोणिपालस्य प्राणवल्लभाम् ।।१५८ ।। तदाकर्ण्य वचस्तस्यास्तत्क्षणं क्षोणिपात्मजः । सस्माराभिग्रहं स्वस्य पश्यत्रिव गुरुं पुरः । । १५९ ।। सद्यस्ततो निराकृत्य विकृतिं चेतसोऽपि हि । प्रणिपत्य पदौ तस्याः कृताञ्जलिरदोऽवदत् । । १६० ।। यदि त्वं भूपतेः पत्नी जनन्यसि तदा मम । निगृहाण दुरक्षाणां मातः कातरतामिमाम् ।। १६१ ।। अवरुह्य गजेन्द्रात् कः खरमारोदुमिच्छति । कः परित्यज्य माणिक्यं शिक्यं स्वीकुरुते सुधीः । । १६२ । । विश्वम्भरमनाहृत्य विचारधवलं नृपम् । को मां प्रार्थयते हन्त ! स्वोदरस्याप्यपूरकम् ।।१६३ ।। दिव्यरूपा हि राजानोऽवतरन्ति महीतले । अतस्तदाश्रितं वस्तु वन्द्यमादरतः परम् । । १६४ ।। इतरस्यापि भोक्तव्या परस्य स्त्रीर्न धीमताम् । पालनात् पितृकल्पस्य किं पुनः पृथिवीशितुः । । १६५ । । लोकद्वयविरुद्धं तद् गर्हितं धर्म्मचारिणाम् । अपस्मारमिदं मुञ्च मातः ! पातनिबन्धनम् ।।१६६।। वचसा तेन सा तस्य प्रतिकूलेन पीडिता । वैलक्ष्यहसितोत्क्षेपा साक्षेपमिदमब्रवीत् ।।१६७।। धूर्त्तितोऽसि ध्रुवं धूर्तेर्मुग्धमुर्द्धन्य कैरपि । शङ्कया परलोकस्य सङ्कोचयसि यन्मनः । । १६८ ।। अदृष्टस्य सुखस्यार्थे यः सुखं दृष्टमुज्झति । उन्नतं जलदं वीक्ष्य जलकुम्भं भिनत्त्यसौ ।।१६९ ।। दृष्टः केन परो लोकः ? को वा तस्मादुपागतः । धूर्त्ताः प्रतारयन्त्येव द्विषन्तः सुखिनं जनम् ।।१७० ।। सम्भोगाय प्रक्लृप्तेऽस्मिन् पुंस्त्रीरूपे जगज्जने । नारीणां च नराणां च केयं स्वपरकल्पना ।।१७१ ।। विकल्पकल्पनां मुक्त्वा सुखस्य प्रतिपन्धिनीम् । प्रत्यक्षां सम्पदं तन्मामनुकूलय बालिशः । । १७२ ।। पुष्पचूलोऽवदत्र त्वं सम्पदेवं प्रलापिनी । मम च स्वस्य चाध्यक्षा विपदेवासि केवलम् ।।१७३ ।। अदृष्टचरमेतन्मे यदीच्छसि बलादपि । सिंहीव जम्बुकं राजपत्र्यपि प्राकृतं जनम् ।।१७४ । अहो तव कुवाकः कोऽपि वेणेरिवेक्ष्यते । शिरसा ध्रियमाणापि निम्नमेवानुधावसि ।। १७५ ।। समुत्पन्नासि यत्र त्वं पाणिर्यत्र च पीडितः । तस्य वंशद्वयस्यापि दवज्वालेव जङ्गमा ।।१७६ । अनेन दुश्चरित्रेण त्वदङ्गीकारकारिणः । विचारधवलस्याख्यां कुरुषे किं निरन्वयाम् ।।१७७ ।। इत्यालापपयः पीत्वा कुटिला सर्पिणीव सा । पुनर्वाग्गरलोद्गारमुज्जगारेति निस्त्रपा ।।१७८ ।। रे दुर्विदग्ध ! स्वाधीनां सुधां पिबसि चेत्र हि । तत्प्रत्युतेनामन्यान्यदूषणैर्दूषयस्यलम् ।।१७९।। पार्थिवैः प्रार्थनीयाहं प्रार्थये जगतीह कम् । स्वयंवरां श्रियं तन्मां विमानयसि मूढ ! किम् ।।१८० ।।
Jain Education International 2010_02
For Private & Personal Use Only
३१५
www.jainelibrary.org