________________
३१४
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
अलं तदस्य वित्तेन प्राणव्यापत्तिहेतुना । इति निश्चित्य सत्त्वैकगेहं तद्गेहतो ययौ ।।१२९।। अथ द्वितीयं सदनं दिनदृष्टं विवेश सः । रजतस्वर्णसोपानं विचित्रमणिकुट्टिमम् ।।१३०।। अहो समृद्धिहस्य बहिरप्यतिशायिनी । अस्याः सहस्रगुणिता ध्रुवमन्तर्भविष्यति ।।१३१।। इत्यादि विमृशन् भूमीलङ्घयन्त्रुत्तरोत्तराः । अन्तस्तरङ्गितानन्दश्चन्द्रशालामसी ययो ।।१३२।। तत्र माणिक्यवेद्यन्तर्मणिपल्यङ्कसङ्गताम् । देवदूष्यावृतार्दाङ्गीमनर्घ्यमणिभूषणाम् ।।१३३।। देवदत्ताऽभिधां वेश्यां स्मरसञ्जीवनौषधीम् । ददर्श गाढमालिङ्गय सुप्तां कुष्ठिनमेककम् ।।१३४।। युग्मम् ।। तस्यास्तश्चेष्टितं दृष्ट्वा लोभसङ्क्षोभसम्भवम् । विषादमाससादासौ मेदुरं मेदिनीन्द्रसूः ।।१३५ ।। अचिन्तयञ्च यस्यार्थे भूयांस्यंहांसि देहिनः । आइत्यापि सुखश्रेणी घटयन्ति निरन्तरम् ।।१३६।। तत्रापि हि निजे पापा निरपेक्षा वपुष्यसौ । यैवमर्जयति द्रव्यमव्याहतमनोरथा ॥१३७।। अप्यन्तरात्मनो देहात्मनोऽपि ह्यतिवल्लभम् । वसु तस्याः समादाय जीवेनानुद्गतं हृतम् ।।१३८ ।। वक्ष्ये किं पौरुषोष्माणं भोक्ष्ये कां वा सुखश्रियम् । कस्मै पात्राय दास्यामि यास्यामि कतमां गतिम् ।।१३९।। पुरन्ध्रीणां धनं तावदन्यासामापि मानिनाम् । नादातुमुचितं हन्त ! किं पुनः पणयोषिताम् ।।१४०।। धिगिमामधमां तस्माद् धिगस्यां निन्दितं धनम् । तल्लिप्सया समायातं धिङ्मामपि नराधमम् ।।१४१।। इत्यालोच्य स्वचित्तेऽथ वित्ते तस्याः स निस्पृहः । पथा यथागतेनैव चतुष्पथमुपाययौ ।।१४२।। दध्यौ तत्रोर्ध्व एवायमप्रमेयपराक्रमः । क्लेशार्जितधनैरेभिर्मुषितैः किं पुरीजनैः ।।१४३।। अक्लेशेनात्तममितं स्वापतेयं महीपतेः । कोशादाकृष्य गृह्णामि किं नात्मीयमिवाधुना ।।१४४।। एवं कृते जीवतो मे भवति श्रीरखण्डिता । क्षत्रवृत्त्या मृतस्याथ जने कीर्तिरनिन्दिता ।।१४५।। निश्चित्येति विनिक्षिप्य गुप्तवातायनं प्रति । रश्मिसंयमितां गोधां तदाधारमवाप्य च ।।१४६।। गवाक्षमन्तरिक्षस्थं लीलयैवारुरोह सः । निभृतं मध्यमध्यास्त नृपसोधस्य च क्रमात् ।।१४७।। युग्मम् ।। विचारधवलस्याथ नृपस्य महिषी तदा । पतिप्रणयकोपेन दैवात्तत्र समागमत् ।।१४८।। नीरन्ध्रे चान्धकारेऽस्य करस्पर्शेन चिन्वतः । सारवस्तूचयं पञ्चशाखस्तामस्पृशत् तदा ।।१४९।। स्पर्शानुमानतस्तस्य पुमानिति सविस्मया । सद्यः सपुलकस्वेदा साऽभूत् प्रकृतिपुंश्चली ।।१५०।। हस्तानुसारतस्तूर्णमभिसृत्य स्मितानना । वृषस्यन्ती वृषस्कन्धमभ्यधत्त तमित्यसौ ।।१५१।। अपि योगिधियामस्मिनगाधे सोधसङ्कटे । कथं प्रविष्टः को वा त्वं साहसैकमहानिधिः ।।१५२।। पुष्पचूलोऽवदछौरं साहसैकधनं विना । प्रविशेत् कः परावासं विशेषानृपमन्दिरम् ।।१५३।।
2. स्वापतेय - (नपुं.) धन-दोलत इति भाषायाम्, स्वपतौ साधु स्वापतेयम् “पथ्यातिथि" - ७/१/१६ ।। इत्येयण् ।।
- अभि. चि. ना. श्लो. १९१ स्वो. टीकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org