________________
गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
३१३
निशीथसमये यावनिजावासं प्रविश्य सः । द्वारदेशमुपेयाय निभृतं वासवेश्मनः ।।१०२।। तावत् पुंसा सहैकेन प्रसुप्तां वल्लभां निजाम् । दीपालोकेनालुलोके प्रकोपाटोपपाटलः ।।१०३।। ततः करिघटाकुम्भस्थलीदलनलालसम् । चकर्ष कोशात् कौक्षेयं बिलादिव महोरगम् ।।१०४।। निहन्मि युग्ममप्येतदनार्यमिति राजसूः । झटित्युपाटयन् खड्गं तां सस्मार गुरोर्गिरम् ।।१०५ ।। युयुत्सुरिव मेषोऽथ यावत् पश्चादपासरत् । झणज्झणिति चक्रेऽसिस्तावदास्फलितस्तुलाम् ।।२०६।। मरालपक्षवत् कर्णे तेन शब्देन सर्पता । पुंवेषा पुष्पचूला सा झगिति प्रत्यबुध्यत ।।१०७।। जीवतानन्दताल्लोके पुष्पचूलो ममाग्रजः । सम्भ्रमादिति जल्पन्ती तल्पमुज्झाञ्चकार सा ।।१०८।। स्वस्वसारमिमां ज्ञात्वा हर्षशोकसमाकुलः । ननाम पुष्पचूलस्तां किमेतदिति चाब्रवीत् ।।१०९।। साऽप्येनमवदद् भ्रातर्विजयाय गते त्वयि । नटाः केचिदिहागत्यावसरं मां ययाचिरे ।।११०।। जने यास्यति मद्भातुरवस्कन्दकथा प्रथाम् । इति त्वद्वेषधारिण्या ते मयैव हि नर्तिताः ।।१११।। ततश्च विह्वलीभूता प्रेक्षान्ते निद्रया भृशम् । समं निजप्रजावत्या प्रसुप्तास्म्येवमेव हि ।।११२।। पुष्पचूलस्तदाकर्ण्य धुन्वन् मूर्धानमुश्चकैः । प्रशशंस मुहुः सूरीन् स्वस्याभिग्रहदायिनः ।।११३।। दध्यौ चैवमहो ! साधुसम्पर्कः सर्वकामदः । अपवादाश पापाच मुक्तोऽहं यत्प्रभावतः ।।११४।। त्रातो मृत्युमुखात् पूर्वमधुना नरकाननात् । अनृणोऽहं भविष्यामि कथं तेषां महात्मनाम् ।।११५ ।। इत्यादि भावयन् भावशुद्ध्या सोऽभिग्रहान् निजान् । पालयामास सञ्जातप्रत्ययः सत्त्वसारधीः ।।११६।। विमुक्तः किन्तु वृन्देनावस्कन्दादावनीश्वरः । स वृत्तिं कल्पयामास सन्धिदानादिसाहसैः ।।११७ ।। अवन्ती नगरी सोऽगादन्येधुरदवीयसीम् । विचारधवलाह्न क्षोणिपालेन पालिताम् ।।११८ ।। तत्र वेश्मद्वयं तेन बहिर्लक्ष्मीमनोहरम् । कल्पितं सन्धिदानाय सम्भाव्यगुरुवैभवम् ।।११९।। अथ निसञ्चरे राजसञ्चरे विरते रवे । यामिनीयौवनोद्भेदे शूचीभेद्ये तमस्यपि ।।१२०।। गाढनिद्रावगाढेषु पोरेषु प्रविवेश सः । एकस्मिन् मन्दिरे राजतनयो दिनदृष्टयोः ।।१२१ ।। युग्मम् ।। अलक्ष्यपदसञ्चारः कक्षान्तरगतोऽथ सः । दिनायव्ययसंवादं पितुः पुत्रस्य चाशृणोत् ।।१२२।। अस्मरन्तं च तत्रैकां काकिणीं तनयं निजम् । बभाण भ्रकुटीभङ्गभीषणास्याः पिता तदा ।।१२३।। रे दुराचार ! गमयनेकैकां काकिणीमिति । करिष्यस्यचिरात् त्वं मां कुलपांसन ! निर्द्धनम् ।।१२४ ।। निस्सर त्वरितं तस्मादलक्ष्मीकन्द ! मन्दिरात् । न स्थितिर्मद्गृहेऽस्तीदृगयुक्तव्ययकारिणाम् ।।१२५ ।। अचिन्तयत्तदाकर्ण्य चित्ते नृपतिनन्दनः । मितम्पचत्वमस्याहो ! सत्यं वाचामगोचरः ।।१२६।। गृहभारक्षमं दक्षं क्षमिणं व्यवसायिनम् । काकिणीकारणात् पुत्रं निर्वासयति यो गृहात् ।।१२७।। सर्वस्वे मुषिते तस्य परुषेण मयाऽधुना । स्फुटिते हृदि निर्यान्तमात्मानं को निरोत्स्यति ।।१२८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org