________________
३१२
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
अहो ! जघन्यता मे यदकारणकृपालवः । धर्मोपदेशदा यूयमेवं वचोनियन्त्रिताः ।।७५।। इत्यादि जल्पतस्तस्य योग्यतामुपयोगतः । विदित्वा प्रत्युवाचैवं वाचं वाचंयमाग्रणीः ।।७६।। नृपात्मज ! तवाभाति यद्येतदतिदुष्करम् । तदायतिहितं सुष्टु सुकरं च वचः शृणु ।।७७।। येषां फलानां त्वत्राम स्वतो वा परतोऽपि वा । न जानासि न भक्ष्याणि भवता तानि जातुचित् ।।७८।। यत्र वेच्छसि जीवे त्वं प्रहर्तुमतिनिर्दयः । द्वित्राणि तत्र व्यावृत्त्य पदानि प्रहरः सदा ।।७९।। राज्ञो रिरंसमानाऽपि रन्तव्या न प्रिया त्वया । काकमांसं न भोक्तव्यं सुमहत्यपि सङ्कटे ।।८।। चतुष्टयमिदं वत्स ! नियमानामनाहतम् । पालयनचलश्चित्ते विपुलां प्राप्स्यसि श्रियम् ।।८१।। तथेति प्रतिपद्याथ प्रणम्य च मुनीश्वरम् । व्यावर्त्तत् स्वसीमान्ताद् धन्यंमन्यो नृपात्मजः ।।८२।। गुरूनिव गुरूक्तानि वचनानि वहन् हदि । स भूयोऽप्यभजद् वृत्तिं कल्पितां कर्मभिनिजैः ।।८३।। अन्येचुर्देशितं चारनरैः सार्थं पृथु प्रति । प्रतस्थे मितपाथेयः सह स्वैः पार्थिवात्मजः ।।८४।। दैवादन्येन मार्गेण सार्थे स्वस्थानमीयुषि । फालच्युत इव द्वीपी विषण्णः सत्यवर्त्तत ।।८५।। ततस्त्रुटितपाथेयैः पथि तैः पारिपन्थिकैः । फलानि पुष्पचूलाय क्षुधार्तायोपनिन्यिरे ।।८।। वीक्ष्य तान्यतिहद्यानि स्वादूनि सुरभीणि च । अपृच्छत् पुष्पचूलस्तान् कान्यमूनि फलानि भोः ।।८७।। जगुस्ते देव ! जानीमो नामीषामभिधां वयम् । किन्तु दिव्यफलानीति दृश्यमानानि भान्ति नः ।।८८।। स्मरन् गुरुवचः सोऽथ सत्यव्रतमहाधनः । जगाद नाहमश्नामि फलान्यविदितानि भोः ।।८९।। सोपहासमथोचुस्ते स्वामिन् ! धूतः प्रतारितः । पीयूषपेशलान्येतान्यनासि न फलानि किम् ।।१०।। प्रत्यूचे सोऽपि धिग् मूर्खाः किमकारणवत्सलाः । वञ्चयन्ति कदाचित् ते जनं संयमिनां वराः ।।११।। प्रतिपत्रं च मुञ्चामि न कदाचिदहं वचः । नरस्य वागविहीनस्य शवस्य च किमन्तरम् ।।१२।। एवं कृतप्रतिज्ञेऽथ तस्मिंस्तदनुजीविनः । फलानि तानि जरुस्ते बुभुक्षाक्षामकुक्षयः ।।१३।। क्रमात् फलरसे तस्मिन् परिणाममुपेयुषि । सहैव निद्रया दीर्घनिद्रां ते प्रतिपेदिरे ।।१४।। प्रोवाच पुष्पचूलस्तान् प्रयाणावसरे यदा । नैकोऽपि तेषु सुप्तेषु प्रतिवाचमदात् तदा ।।९५।। किमेतदिति सम्भ्रान्तः स यावदुपसर्पति । तावदुत्क्रान्तचैतन्यानपश्यत्तांस्तपस्विनः ।।१६।। सविषादमथो दध्यो ध्रुवं विषफलैरमी । भक्षितैस्तैर्दशामेतामविचाराः प्रपेदिरे ।।९७।। प्रदत्तो गुरुभिर्न स्याद् यदि मेऽभिग्रहस्तदा । अभविष्यदसावेव ममापि हि दशा तदा ।।१८।। अहो ! तेषां कृपालुत्वमहो ! मैत्र्यमकृत्रिमम् । अहो ! परोपकारित्वमहो ! विज्ञानशालिता ।।१९।। इत्यादि विमृशंस्तेषां कृत्वा शस्त्राणि भूमिसात् । दिवेन्दुरिव विच्छायो विगतो/परिच्छदः ।।१०।। कथमेकः स्वलोकस्य दर्शयिष्ये निजाननम् । इति त्रपावशान्नक्तं सोऽथ पल्लीमलीयत ।।१०१।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org