________________
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
३११
किञ्चिदार्द्रमनाश्चाथ प्रत्यूचे तान् महर्षयः । ईदृग् निस्तृ[त्रिं]शचेष्टस्य कुतः श्राद्धत्वमस्ति मे ।।४८।। ददामि किन्तु वसतिमेकया वो व्यवस्थया । धर्मोपदेशमात्मीयं यदि यूयं न दत्त मे ।।४९।। तथेति प्रतिपद्याथ सूरयस्तेऽवतस्थिरे । पुष्पचूलेन दत्तायां वसतौ वशिनां वराः ।।५०। असंयमैकजिष्णूनां रागद्वेषद्वयद्विषाम् । जितदण्डत्रयाणां च सम्परायोदयगृहाम् ।।५१।। पञ्चव्रतजुषां षट्सु कायेषु यतनाभृताम् । भयसप्तकमुक्तानां मदस्थानस्थितिच्छिदाम् ।।५२।। नवभिर्गुप्तिभिर्गुप्तमजिह्यं ब्रह्म चिन्वताम् । तत्रातिचक्रमुर्वर्षास्तेषांक्षान्त्यादिशालिनाम् ।।५३।। विशेषकम् ।। अथ प्राप्ते परीणामं तृणवल्लीलतागणे । जलश्रोतसु शान्तेषु निर्जीवे जगतीतले ।।५४।। शकटोक्षद्विपाश्चोष्टैः स्वैरं क्षुण्णेषु वर्त्मसु । विहारसमयं ज्ञात्वा सूरिः प्रोवाच पल्लिपम् ।।५५।। भवत्साहाय्यतो भद्र ! भद्रेणैवातिवाहितः । अस्माभिर्दुस्तरोऽप्येष घनर्तुरकुतोभयैः ।।५६।। इच्छामस्त्वदनुज्ञाता विहर्तुं साम्प्रतं वयम् । शय्यातरोऽसि तदितो धर्मलाभोऽस्तु भोस्तव ।।५७।। इत्युक्ते सूरिभिः सोऽन्तर्भूरिभिस्तद्गुणैर्भृशम् । भावितः प्रत्युवाचैवं प्रणम्य रचिताञ्जलिः ।।५८।। भगवन् ! किमु नात्रैव भवद्भिः स्थीयते सदा ? । शिरसाऽपि धृता यूयं यतो मे न व्यथाप्रदाः ।।५९।। मुनिनाथोऽप्यथोवाच पार्थिवात्मज ! युज्यते । मुनीनां मधुपानां च व्रजानामथ पक्षिणाम् ।।६०।। नैकत्रावस्थितिर्जातु गुणसङ्ग्रहणैषिणाम् । अस्माकं तु विशेषेण निस्सगाध्वनि धावताम् ।।६१।। युग्मम् ।। इत्युक्तः सोऽपि तचित्तं वीतरागं विदन्नथ । तान् नेतुं निजसीमानं चचाल सपरिच्छदः ।।२।। क्रमेण प्राप्य तत्पल्लि - सीमानं मुनिपुङ्गवः । ऊचे नृपाङ्गजन्मानमिति प्रकृतिवत्सलः ।।६३।। राजपुत्र ! प्रतिज्ञा नः पूर्णा पूर्वप्रतिश्रुता । अतस्त्वां प्रति वक्ष्यामः किञ्चिद् धर्मानुगं वचः ।।६४।। उपकारः परे कार्योऽनुपकारपरेऽपि हि । किं पुनस्त्वादृशे साक्षाद् दर्शितोपकृतिक्रमे ।।५।। शाययत्येव निःशेषं समसुप्तिर्जनं यतः । परोपकार एवैकः किन्तु जागर्त्यतन्द्रितः ।।६६।। स पुनर्भवति द्वेधा द्रव्यतो भावतोऽपि च । आद्यस्तत्र कृतोऽस्माकं त्वया वसतिदानतः ।।६७।। वयं विधातुमिच्छामो द्वितीयं भवतः पुनः । आदत्स्व वत्स ! सम्यक्त्वं मूलं मोक्षतरोरतः ।।६८।। अणुव्रतानि पञ्चापि गुणशिक्षाव्रतानि च । भावतः प्रतिपद्यस्व शक्तश्चेन मुनिव्रतम् ।।६९।। जजल्प पुष्पचूलोऽपि मन्दाक्षविनमन्मुखः । अहो ! भगवतां पापे कृपा मय्यपि कीदृशी ? ।।७०।। सत्यात्मन् ! सत्य एवायं धर्मः पूज्यैः प्रदर्शितः । किन्तु धारयितुं नैनमधमोऽहं क्षमो यतः ।।७१।। आर्त्तरौद्रार्दिते चित्ते शुभात्मध्यानसम्भवम् । सम्यक्त्वं स्थिरतामेति स्थले कमलवत् कथम् ।।७२।। निर्दयं निघ्नतः सत्त्वान् वदतोऽनृतमेव हि । परवित्तैकजीवातोः परस्त्रीसक्तचेतसः ।।७३।। अतुच्छमूर्छन्मूर्च्छस्य निशि मांसादिभोजिनः । खरकर्मकनिष्ठस्य कथं विरतिरस्तु मे ।।७४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org