________________
३१०
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
स्फुटमेव च शास्ते यद् दशवेश्यासमो नृपः । किन्तु निस्तरति न्यायमनपायं प्रवर्तयन् ।।२१।। अतोऽहमपि पूर्वेषां नीतिक्रममनुस्मरन् । सर्वात्मनापि प्रयते प्रजाभ्युदयकाम्यया ।।२२।। तस्मात् सचिवसामन्तमण्डलेशादिभिः किमु । पुत्रेणापि न मे कार्य यो न पालयति प्रजाः ।।२३।। इत्युक्ते भूभुजा ज्ञातपरमार्थस्तदाऽखिलेः । पश्यद्भिः पुष्पचूलास्यं नृपाज्ञा प्रत्यपद्यत ।।२४।। श्रुत्वा तत् पुष्पचूलोऽपि चिन्तयामास चेतसि । मामुद्दिश्य ध्रुवं सर्वं तातेनेदमुदीरितम् ।।२५ ।। तत् पित्रा ज्ञातदोषस्य लोकेऽप्यक्षिगतस्य मे । विगर्हितमवस्थानं नगरेऽस्मिन्नतः परम् ।।२६।। निश्चित्येति निशीथिन्या - मभिमानधनोऽथ सः । हस्ते निशातं निस्तृत्रिशं हृद्युत्साहमिवोद्वहन् ।।७।। निर्गत्य नगराद् भिल्लपल्लीमेकामलीयत । अस्वामिकैश्च शवरैः स्वामित्वे प्रत्यपद्यत ।।२८।। पुष्पचूलापि विज्ञाततदुदन्ता धृतारतिः । तमेवाशिश्रियद् गाढसौभ्रात्रस्नेहमोहिता ।।२९।। प्रकृत्या सदयोऽप्येष पुलिन्दैर्निर्दयैर्युतः । तत्तुल्योऽभूद् दहत्येव जलं ज्वलनयोगतः ।।३०।। ब्राह्मणश्रवणायैः स समगंस्त न जातुचित् । प्रेरयन्ति किलते मां सद्बोधैर्धर्मकर्मणि ।।३१।। निरङ्कुशतया कामं रौद्रो रस इवाङ्गवान् । स बाह्याभ्यन्तरान् प्राणान् प्राणिनामघृणोऽहरत् ।।३२।। नगरग्रामसार्थादि समुल्लुण्टन् असम्भवैः । विभवैः स क्रमेणाभूत् पुष्टकोशपरिच्छदः ।।३३।। दुरवस्थामथान्येद्युः सरसां सरितामपि । बाढं सोढुमिवाशक्तः प्रावर्त्तत तपात्ययः ।।३४।। चलन्तीभिर्बलाकाभिर्यथा कादम्बिनी बभौ । कुटजानां स्फुटन्तीभिः कलिकाभिस्तथा वनी ।।३५ ।। जलदच्छन्नमज्योत्स्नं वीक्ष्य चन्द्रं प्रवासिनः । सस्मरुः प्रेयसीवकामहासं लुलितालकम् ।।३६।। प्रस्थितान् पथिकान् वीक्ष्य त्वरया प्रेयसीरनु । दिदेश दयया विद्युन्मार्गान् मेघान्धकारितान् ।।३७।। काननं केकिकेकाभिर्गगनं घनगर्जितैः । सरः शालूरसितैर्वाचालितमजायत ।।३८।। घनान्धकारिते व्योग्नि राजहंसाः प्रतस्थिरे । एके मानसमुद्दिश्य राजधानीमथापरे [मे] ।।३९।। तदा चातकजीवातौ जीमूते जलमुज्झति । कदम्बवनवीथीव पृथिवी समुदश्वसत् ।।४।। इति प्रियवतीप्रीतिप्रदेऽस्मिन् जलदागमे । सूरयः केऽपि तां पल्ली समाजग्मुः पथश्च्युताः ।।४१।। दृष्ट्वा दयाप्रधानोऽथ हरिताकुरदन्तुरान् । पयःप्लवप्लतान् मार्गान् विहारेऽनधिकारिणः ।।४२।। अतिवाहयितुं वर्षास्तत्रैव मुनिपुङ्गवः । वसत्यै प्राहिणोत् पल्लयां सन्निवेशधिया मुनीन् ।।४३।। युग्मम् ।। अनार्यास्तैरथायैस्ते वसतिं याचितास्तदा । साधु खेलनमायातमेवं मुमुदिरे हृदि ।।४४।। प्रत्यूचुः सोपहासं च भगवनस्ति नः प्रभुः । वक्रचूलोऽत्र स श्राद्धो भवत्स्वत्यन्तवत्सलः ।।४५।। वसतिं भक्तपानादिसमेतां वः स दास्यति । इत्युक्तास्ते महात्मानस्तैस्तमेवोपतस्थिरे ।।४६।। पृष्टाश्च कारणं तेन यथावस्थितमूचिरे । सोऽचिन्तयन धिग् धूर्तस्तैरेते विप्रतारिताः ।।४७।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org