________________
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
३०९
यथेति दृष्टान्तोपन्यासे । यथा तो मुनीन्द्रनरनाथनन्दनौ कथायां वक्ष्यमाणस्वरूपौ परस्परमन्योन्यं प्रति भावोपकारं द्रव्योपकारं च विधाय क्रमेण भवदुःखानां संसृतिसमुत्थक्लेशजलानां पराङ्मुखावभाजनं जाताविति ।।२६९ ।। सम्प्रदायगम्यौ च मुनीन्द्रनरेन्द्रनन्दनौ । स चायम् -
। परोपकारविषये पुष्पचूल-पुष्पचूलाकथानकम् ।। जम्बूद्वीपेऽत्र भरते भ्राजितं भूरिभूतिभिः । पुरं श्रीपुरमित्यासीत् पौरलोकप्रियाकरम् ।।१।। यदिन्द्रनीलवप्रोस्नै - रूर्ध्वमाबद्धमण्डलेः । पुरप्रष्ठतया रेजे धृतनीलातपत्रवत् ।।२।। अभ्रंलिहगृहश्रेणिसङ्गिनीनमृगीदृशाम् । यत्र वक्त्रेन्दुभिश्चक्रे शतचन्द्र नभस्तलम् ।।३।। विशेषकम् ।। यस्मिन् जिनेन्द्रबिम्बानां मुखचन्द्रमरीचिभिः । निरस्तं निस्थितिं लेभे सबाह्याभ्यन्तरं तमः ।।४।। तत्रासीद् विमलयशाश्चरितार्थाभिधो नृपः । न्यायधर्मा विना यस्य नान्यत् प्रियमजायत ।।५।। नृपस्य मान्यो द्वेष्योऽयं दुर्बलोऽयमयं बली । नाभूत् पौरेषु शब्दोऽयं यस्मिन् शासति मेदिनीम् ।।६।। विलसत्कुन्तला काञ्चीमध्यदेशमनोहरा । अचलेवापरा तस्य प्रियाऽजनि सुमङ्गला ।।७।। भुञ्जानस्य तया सार्द्धं तस्य वैषयिकं सुखम् । सुस्वप्नसूचितः काले पुष्पचूलः सुतोऽभवत् ।।८।। कमला कौस्तुभस्येव सुधेव च सुधानिधेः । वत्सला पुष्पचूलेति स्वसा तस्याभवत् क्रमात् ।।९।। अधीयाय तया सार्द्धं स कलाः स्वकुलोचिताः । स्मरसञ्जीवनं प्राप्य क्रमाद् योवनमप्यसौ ।।१०।। सुमेधाः सत्यसन्धश्च परानाक्रम्यविक्रमः । उदारः सत्त्वसारश्च स चचार यथासुखम् ।।११।। विनयं नीयमानोऽपि स दुर्ललितचेष्टितः । केलीकिलतया किञ्चित् पौरलोकानुपाद्रवत् ।।१२।। जात्यैव मसृणत्वेन भूमिभर्तुर्भयेन च । आगांसि सेहिरे पौरास्तस्येति धृतबुद्धयः ।।१३।। यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमुतास्य चतुष्टयम् ।।१४।। मिथो निभृतमूचुस्ते तेनात्यन्तं कदर्थिताः । वक्रचूलोऽप्यसौ पुष्पचूल: किमभिधीयते ।।१५।। तञ्च तचरितं चारनरेभ्योऽवेदि भुभुजा । व्यक्षा अपि सहस्राक्षाश्चाराक्षैर्हि क्षितीश्वराः ।।१६।। महाजनमथाहूय पुष्पचूलस्य पश्यतः । सामन्तादीन् समुद्दिश्य जगादेति महीपतिः ।।१७।। हंहो ! शृणुत सर्वेऽपि पूर्वजैः पार्थिवैर्मम । न्यायधर्मपरैः स्वस्य प्रजेवापाल्यत प्रजा ।।१८।। जटावल्कलभश्माक्षसूत्रादीनां परिग्रहः । न धर्मो भूभुजां किन्तु प्रजापालनमेव हि ।।१९।। प्रजापीडनसम्भूतो विरागपवनो नृपम् । समूलमुन्मूलयति नदीरय इव द्रुमम् ।।२०।। गाथा-२६९ 1. वप्रस्य उौः किरणैः वप्रोझैः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org