SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३०८ हितोपदेशः । गाथा-२६६, २६७, २६८, २६९ - अचेतनानां उपकारः ।। नद्यः सरितोऽप्यनुपकृता अप्येतदेतद् विषहन्ते । किं तद् ? इत्याह-तुङ्गगिरिशिखरनिपतनम् । उच्चैस्तरशिखरिशिखरप्राग्भारनिपतनकष्टम् । तथा विकटोपलस्खलनं स्थूलगण्डोपलप्रतिहतिक्लेशम् । तथा नीचगामित्वं निम्नसञ्चारयातनां च । किमर्थम्? किल स्नानपानावगाहनादिभिर्लोकोपकारार्थमिति ।।२६५ ।। तथा - रविकरतावं पक्खीण चंचुनहपहरपयभरक्कमणं ।। विसहति मग्गतरुणो पहियाणमपरिचियाण कए ।।२६६।। रविकरतापं चण्डकरप्रचण्डतापसम्पातम् । तथा पक्षिणां विहगानां चञ्चनखप्रहारपदभराक्रमणम् । अन्यदपि शीतवातवृष्ट्यादिकं कष्टमपरिचितानामपि पथिकानामध्वन्यानां निजछायादलफलप्रसूनादिभिरुपकर्तुमिव मार्गतरवो विषहन्ते ।।२६६।। तथा - भूमी वि वहइ भारं जलणो वि हु ओसहीगणं पयइ ।। आसासइ पवणो वि हु लोयं केणुवकयं तेसिं ।।२६७।। भूमिर्वसुन्धराऽपि सर्वेषां सचेतनाचेतनानां भारं शुभाशुभांश्च स्पर्शान् किल चराचरस्य जगतोऽप्युपकृतये अवगणितस्वखेदावहति । तेनैव सर्वंसहेत्यभिधीयते । तथा ज्वलनोऽपि वह्निरप्यौषधीगणं तन्दुलमुद्गमाषादिसस्यसमूहं क्षुधातस्य जन्तुजातस्योपकृतये किल पचति । तथा पवन: समीरणोऽपि श्रमवशविवशं जनमाश्वासयति । अतः किं तेषां भूम्यादीनां किमपि केनाप्युपकृतमपि तु न किञ्चिदिति ।।२६७ ।। उपक्रान्तमेव निगमयन्नाह - इय जइ अणुवकया वि हु विसिट्ठचेयनसुन्नया वि इमे । किर उवयरंति ता जयह दव्वभावोवयारेसु ॥२६८।। इति पूर्वोदितप्रकारेणामी पयोदप्रभृतयो विशिष्टचैतन्यशून्या अपि स्पष्टपञ्चेन्द्रियत्वगुरुजनोपास्तिशास्त्राऽध्ययनजनसंव्यवहारादिविरहिताः । केनाप्यनुपकृता अपि यदि किलैवमुपकुर्वन्ति, तदा हे सचेतनास्तद्विलक्षणा ! यूयं द्रव्यभावोपकारयोः सविशेषं यतध्वम् ।।२६८।। एतदेव दृष्टानोपष्टम्भयन्नाह - जह ते मुणिंदनरनाहनंदणा भावदव्वउवयारं । काउं परुप्परं भवदुहाण विवरंमुहा जाया ।।२६९।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy