________________
हितोपदेशः । गाथा-२६३, २६४, २६५ - अचेतनानां उपकारः ।।
३०७
हन्तेति सोपचारामन्त्रणे । अमी देहिनः कथमपि यद्युपकारधनमर्जयन्ति, तदा निश्चितमविनश्वरा भवन्ति । केन? देहेन । किम्भूतेन? कतिपयदिनप्राघूर्णकेन परिमितवासरातिथिना । उत्पत्तिमतां देहादीनामवश्यविनाशधर्मित्वात् । किमुक्तं भवन्ति? आयुःक्षयेण क्षणक्षयिणि क्षीणेऽपि भौतिके पिण्डे स्वशक्त्यनुमानेन सर्वत्र प्रवर्तितपरोपकारा यशःशरीरेणाचन्द्रार्क स्थायिनस्ते ।।२६२।।
एवं सत्यपि केचिद्दुर्विदग्धा कदाचिदेवमप्युदीरयेयुर्यत् कृतोपकारेष्वेवोपकर्त्तव्यं, 'कृते प्रतिकृतं कुर्याद्' इति वचनादतस्तान् साक्षेपमाक्षिपन्नाह -
कह तेसि चेयणत्तं उवयरिया उवयरंति जे अन्नं ।
ते चिय सचेयणा जे अणुवकया उवयरंति परं ।।२६३।। आस्तां तावत्तेषां जगति प्रकृतिपुरुषत्वं यावदेकेन्द्रियादिसाधारणम् चेतनत्वमात्रमपि कथं तेषां जाघटीति? । ये पूर्वं कृतोपकाराः परमुपकुर्वन्ति । उपकृते छुपकरणं स्वस्य ऋणमोचनमेव, न पुनः सत्पुरुषता । केषां तर्हि सचेतनत्वम् ? इत्याह - त एवात्र सचेतना ये अनुपकृताः परमुपकुर्वन्ति ।।२६३ ।।
न चायमनुपकृतोपकारः सकर्णविज्ञानामेव धर्मः, किन्तु विशिष्टचैतन्यशून्यैः पयोदप्रभृतिभिरप्यादृत इवायमीक्ष्यते । तथाहि -
समए समुन्नई पाविऊण जलपडलममलमुझंतो ।
उवयरइ घणो लोयं किमुवकयं तस्स लोएण ।।२६४।। किल न खलूपकृतिनिबन्धनैव घनादीनां प्रवृत्तिः, किन्तु तथाविश्रसापरिणामवशात् स्वभाव एवायममीषां । तथापि किल परोपकृतिबद्धबुद्धयस्ते तथा प्रवर्त्तन्त इति वितर्कगोचरमवतरति । तदेव दर्शयति - समये तपात्ययलक्षणे समुत्रति सकललोकलोचनानन्ददायिनीमुच्चैः स्थितिं प्राप्य जलपटलं सलिलप्राग्भारममलं मौक्तिकक्षोदसोदरं समुज्झन् समविषमपात्रापात्रनिःस्वेश्वरादिविषयविभागमवगणय्य समदृष्ट्या घनाघनः प्रवर्षनुपकरोत्येव तावत् सस्यादिसम्पत्त्या सकलमपिलोकम् । लोकेन च कालत्रयेऽपि यदि किमप्यस्योपकृतं तदा स एव साक्षी ।।२६४ ।। तथा -
तुंगगिरिसिहरनिवडण - वियडोवलखलणनीयगामित्तं । अणुवकयाउ नईओ सहंति लोओवयारत्थं ।।२६५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org