________________
३०६
हितोपदेशः । गाथा-२६०, २६१, २६२ - परोपकारस्य महिमा ।।
सति तेषामेव मिथ्यात्वतमोऽन्धकारमपनयन्ति । उदिते हि जीवाजीवादिज्ञानभानुमति विलीयत एव मिथ्यात्वतमः । तथा भवे दुरन्तदुःखलक्षाक्षीणखनौ संसारे विरागमुद्वेगं भव्याङ्गिनामेव जनयन्ति । तथा तेषामेव निर्वाणमार्ग ज्ञानदर्शनचारित्रलक्षणं प्रकाशयन्ति । एवं च कुर्वाणाः कर्मऋणवशात् संसारचारकगतं सकलमपि समासन्नशिवपदं भव्यजनं करुणया निष्कृत्रिमया कृपया समुद्धरन्ति । स एव जिनेन्द्रचन्द्राणां भगवतामस्मिन् भुवने भावोपकार इति ।।२५८ ।।२५९।।
एवं दुविहो वि इमो उवयारो जइ जिणेहिं सयमेव ।
आइनो कहमने इमम्मि सजंति न सयन्ना ।।२६०।। एवं पूर्वोक्तप्रकारेण द्विविधोऽपि द्रव्यभावभेदभिन्नोऽयं परोपकारो यदि जिनरर्हद्भिः स्वयमेवाचीर्णस्तदा तन्मार्गानुवर्तिनः सकर्णाः प्रेक्षावन्तः कथमस्मिन् न संसज्यन्ते ? समुचितैव सहदयानां तत्रासक्तिरित्यर्थः ।।२६० ।। यतः -
रूवं चवणसरूवं दुजीहजीहाचलं जए जीयं ।
तडितरलमत्थजायं उवयारु चिय थिरो एगो ।।२६१।। यस्माजगति यानि किल प्रतिबन्धहेतूनि तेषां तावदियं गतिः तथाहि - रूपमद्भुतस्वरूपमपि तथाविधाशुभसम्भारवशादकस्मादातङ्ककारिभिरुपनतै रोगादिभिः सनत्कुमारादेरिव च्यवनस्वरूपम् । तथा मानुष्यकादिसमग्रसामग्रीसफलीकारमूलबीजं जीवितव्यमपि विविधैरध्यवसानादिभिर्निमित्तैर्द्विजिह्वजिह्वाचलं द्विरसनरसनाग्रचञ्चलम् । तथा समस्तपुरुषार्थसार्थघटनसमर्थमर्थजातमपि तडित्तरलं क्षणप्रभाप्रभोद्भेदभङ्गुरम्, तस्मात् तत्त्ववृत्त्या विचार्यमाणो द्रव्यभावरूपः परोपकार एव प्रायः स्थिरस्वरूपतामाकलयति । तथाहि - अवसर्पिणीप्रारम्भसमयसमुद्भूतैः प्रथमतीर्थनाथप्रभृतिभिः पुरुषप्रकाण्डैः कोटीकोटीसागरोपमप्रमितकालात् परतोऽपि ये धर्मप्रवृत्तिप्रभृतयः परोपकाराः किल क्रियन्ते, तेऽद्य यावदद्यापि तैरुपकारैर्विद्यमाना इव जगत्युपस्तूयन्त इति ।।२६१।। एतदेव निगमयति -
कइवयदिणपाहुणएण हंत देहेण देहिणो कहवि । उवयारधणं जइ अजिणंति नणु सासया हुंति ।।२६२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org |